Bala Kanda – Sarga 39 (Valmiki Ramayana)

Sagara’s sons dig earth in search of ritual hose

Valmiki Ramayana – Kanda 1 – Sarga 39

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनंदन |
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् || १-३९-१

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् |
पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् || १-३९-२

तस्य तद्वचनं श्रुत्वा कौतूहलसमन्वितः |
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव || १-३९-३
श्रूयतां विस्तरो राम सगरस्य महात्मनः |

शंकरश्वशुरो नाम हिमवानिति विश्रुतः || १-३९-४
विंध्यपर्वतमासाद्य निरीक्षेते परस्परम् |

तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम|| १-३९-५
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि|

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः || १-३९-६
अंशुमानकरोत्तात सगरस्य मते स्थितः |

तस्य पर्वणि तं यज्ञं यजमानस्य वासवः || १-३९-७
राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत् |

ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ||१-३९-८
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् |

अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ||१-३९-९
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् |

यज्ञश्च्छिद्रं भवत्येतत्सर्वेषामशिवाय नः || १-३९-१०
तत्तथा क्रियतां राजन् यज्ञोऽच्छिद्रः क्रतुर्भवेत् |

सोऽपाध्यायवचः श्रुत्वा तस्मिन्सदसि पार्थिवः ||१-३९-११
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह |

गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ||१-३९-१२
मंत्रपूतैर्महाभागैरास्थितो हि महाक्रतुः |

तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ||१-३९-१३
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत |

एकैकं योजनं पुत्रा विस्तारमभिगच्छत || १-३९-१४
यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम् |
तमेव हयहर्तारं मार्गमाणा ममाज्ञया ||१-३९-१५

दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् |
इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम् ||१-३९-१६

ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः |
जग्मुर्महीतलं राम पितुर्वचनयंत्रिताः ||१-३९-१७

गत्वा तु पृथिवीं सर्वमदृष्टा तं महबलाः |
योजनायामविस्तारमेकैको धरणीतलम् |
बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः ||१-३९-१८

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः |
भिद्यमाना वसुमती ननाद रघुनंदन ||१-३९-१९

नागानां वध्यमानानामसुराणां च राघव |
राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत् ||१-३९-२०

योजनानां सहस्राणि षष्टिं तु रघुनंदन |
बिभिदुर्धरणीं राम रसातलमनुत्तमम् ||१-३९-२१

एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः |
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ||१-३९-२२

ततो देवाः सगंधर्वाः सासुराः सहपन्नगाः |
संभ्रांतमनसः सर्वे पितामहमुपागमन् ||१-३९-२३

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा |
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ||१-३९-२४

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः |
बहवश्च महात्मानो वध्यन्ते जलचारिणः ||१-३९-२५

अयं यज्ञ हरोऽस्माकमनेनाश्वोऽपनीयते |
इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ||१-३९-२६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment