Dasaratha passes away
Valmiki Ramayana – Kanda 2 – Sarga 65
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि |
वन्दिनः पर्युपातिष्ठंस् तत् पार्थिव निवेशनम् || २-६५-१
सूताः परमसंस्काराः मङ्गळाश्चोओत्तमश्रुताः |
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्|| २-६५-२
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् |
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत || २-६५-३
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः |
अवदानान्युदाहृत्य पाणिवादा नवादयन् || २-६५-४
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः |
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः || २-६५-५
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः |
आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत || २-६५-६
ततः शुचि समाचाराः पर्युपस्थान कोविदः |
स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् || २-६५-७
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः |
आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि || २-६५-८
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् |
उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः || २-६५-९
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् |
सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् || २-६५-१०
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् |
तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् || २-६५-११
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः |
ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् || २-६५-१२
तथाप्युचितवृत्तास्ता विनयेन नयेन च |
न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे || २-६५-१३
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासंचलनादिषु |
ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः || २-६५-१४
प्रतिस्रोतः तृण अग्राणाम् सदृशम् संचकम्पिरे |
अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् || २-६५-१५
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः |
कौसल्या च सुमित्रा च पुत्रशोकपराजिते || २-६५-१६
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते |
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता || २-६५-१७
न व्यराजत कौसल्या तारेव तिमिरावृता |
कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् || २-६५-१८
न स्म विभ्राजते देवी शोकाश्रुलुलितानना |
ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् || २-६५-१९
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत |
ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः || २-६५-२०
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः |
तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने || २-६५-२१
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः |
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् || २-६५-२२
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले |
सा कोसल इन्द्र दुहिता वेष्टमाना मही तले || २-६५-२३
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता |
नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि || २-६५-२४
आपश्यंस्ताः स्त्रियः सर्वा हताम् नागवधूमिव |
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः || २-६५-२५
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः |
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः || २-६५-२६
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् |
तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् || २-६५-२७
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् |
सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् || २-६५-२८
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः |
अतीतम् आज्ञाय तु पार्थिव ऋषभम् |
यशस्विनम् सम्परिवार्य पत्नयः |
भृशम् रुदन्त्यः करुणम् सुदुह्खिताः |
प्रगृह्य बाहू व्यलपन्न् अनाथवत् || २-६५-२९.
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चषष्टितमः सर्गः ||
6 thoughts on “Ayodhya Kanda – Sarga 65 (Valmiki Ramayana)”
4rbetlogin! If you like betting, this is your place! Easy login, quick bets, big wins is what I heard. Join the action! 4rbetlogin
Yo! Sportsplus is where it’s at! All the latest scores, news, everything you need! If you’re a sports nut you gotta check it out: sportsplus
Alright, let’s go with go666win! Heard they have great games and amazing payouts! Gotta try my luck and let you know what happens! go666win
Yo, phwinlogin is where it’s at! Quick logins and smooth gameplay, no cap. Check it out, it’s legit! phwinlogin
phwin25 is my go-to! Always a solid time, good vibes all around. You gotta try it for yourself! phwin25
Cardtimecasino, man! Where the big plays happen. If you’re looking for excitement, look no further! cardtimecasino