Bala Kanda – Sarga 29 (Valmiki Ramayana)

Legend of Vamana narrated

Valmiki Ramayana – Kanda 1 – Sarga 29

अथ तस्याप्रमेयस्य वचनं परिपृच्छतः |
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे || १-२९-१

इह राम महाबाहो विष्णुर्देवनमस्कृतः |
वर्षाणि सुबहूनीह तथा युगशतानि च || १-२९-२
तपश्चरणयोगार्थमुवास सुमहातपाः |

एष पूर्वाश्रमो राम वामनस्य महात्मनः || १-२९-३
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः |

एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः || १-२९-४
निर्जित्य दैवतगणान् सेन्द्रान् समरुद्गणान् |
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः || १-२९-५

यज्ञं चकार सुमहानसुरेन्द्रो महाबलः |
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः |
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे || १-२९-६

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् |
असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् || १-२९-७

ये चैनमभिवर्तन्ते याचितार इतस्ततः |
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति || १-२९-८

स त्वं सुरहितार्थाय मायायोगमुपाश्रितः |
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् || १-२९-९

एतस्मिन्नन्तरे राम काश्यपोऽग्निसमप्रभः |
अदित्या सहितो राम दीप्यमान इवौजसा || १-२९-१०
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् |
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् || १-२९-११

तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् |
तपसा त्वां सुतप्तेन पश्यामि पुरोषोत्तमम् || १-२९-१२

शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो |
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः || १-२९-१३

तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम् |
वरं वरय भद्रं ते वरार्होऽसि मतो मम || १-२९-१४

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् |
अदित्या देवतानां च मम चैवानुयाचितम् || १-२९-१५
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत |

पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ || १-२९-१६
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन |
शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि || १-२९-१७

अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति |
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः || १-२९-१८

अथ विष्णुर्महातेजा अदित्यां समजायत |
वामनं रूपमास्थाय वैरोचनिमुपागमत् || १-२९-१९

त्रीन्पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् |
आक्रम्य लोकान् लोकार्थो सर्वलोकहिते रतः || १-२९-२०
महेन्द्राय पुनः प्रादात् नियम्य बलिमोजसा |
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः || १-२९-२१

तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः |
मयापि भक्त्या तस्यैष वामनस्योपभुज्यते || १-२९-२२

एनमाश्रममायान्ति राक्षसा विघ्नकारिणः |
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः || १-२९-२३

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् |
तदाश्रमपदं तात तवाप्येतद्यथा मम || १-२९-२४

इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् |
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः |
शशीव गतनीहारः पुनर्वसुसमन्वितः || १-२९-२५

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः |
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् || १-२९-२६

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते |
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् || १-२९-२७

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ |
प्रांजली मुनिशार्दूलमूचतू रघुनंदनौ || १-२९-२८

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव |
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव || १-२९-२९

एवमुक्तो महातेजा विश्वामित्रो महानृषिः |
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः || १-२९-३०

कुमारावेव तां रात्रिमुषित्वा सुसमाहितौ |
प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च || १-२९-३१
प्रशुची परं जप्यं समाप्य नियमेन च |
हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् || १-२९-३२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment