Ayodhya Kanda – Sarga 70 (Valmiki Ramayana)

The messengers enter the city of Rajagriha

Valmiki Ramayana – Kanda 2 – Sarga 70

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः |
प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् || २-७०-१
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः |
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः || २-७०-२

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः |
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया || २-७०-३

इमानि च महार्हाणि वस्त्राण्य़ाभरणानि च |
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय || २-७०-४

अत्र विंशति कोट्यः तु नृपतेर् मातुलस्य ते |
दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज || २-७०-५

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने |
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् || २-७०-६

कच्चित् सुकुशली राजा पिता दशरथो मम |
कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि || २-७०-७

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी |
अरोगा च अपि कौसल्या माता रामस्य धीमतः || २-७०-८

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या |
शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा || २-७०-९

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी |
अरोगा च अपि कैकेयी माता मे किम् उवाच ह || २-७०-१०

एवम् उक्ताः तु ते दूता भरतेन महात्मना |
ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा || २-७०-११

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि |
श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः || २-७०-१२

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत |
आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् || २-७०-१३

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः |
दूतैः संचोदितः वाक्यम् मातामहम् उवाच ह || २-७०-१४

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः |
पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि || २-७०-१५

भरतेन एवम् उक्तः तु नृपो मातामहः तदा |
तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् || २-७०-१६

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया |
मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप || २-७०-१७

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः |
तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ || २-७०-१८

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च |
अभिसत्कृत्य कैकेयो भरताय धनम् ददौ || २-७०-१९

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च |
सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् || २-७०-२०

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् |
ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः || २-७०-२१

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् |
खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ || २-७०-२२

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् |
दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ || २-७०-२३

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् |
रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ || २-७०-२४

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा |
त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् || २-७०-२५

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् |
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् || २-७०-२६

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः |
ततस्तद्भरतः श्रीमानाविवेशानिवारितः || २-७०-२७

स माता महमापृच्च्य मातुलम् च युधाजितम् |
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ || २-७०-२८

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् |
उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः || २-७०-२९

बलेन गुप्तः भरतः महात्मा |
सह आर्यकस्य आत्म समैः अमात्यैः |
आदाय शत्रुघ्नम् अपेत शत्रुर् |
गृहात् ययौ सिद्धैव इन्द्र लोकात् || २-७०-३०

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

426 thoughts on “Ayodhya Kanda – Sarga 70 (Valmiki Ramayana)”

  1. Женский портал https://secretlady.ru о красоте, здоровье, моде и отношениях. Полезные советы, статьи о стиле жизни, уходе за собой, семье и карьере. Актуальные тренды, рекомендации экспертов и вдохновение для современных женщин.

    Reply
  2. For small accounts, even the best group can’t fix poor discipline. If you enter late, increase leverage after losses, or ignore stop loss, the signal won’t save you. Trading psychology still matters every day. Use that mindset when searching for best crypto signals

    Reply

Leave a Comment