Ayodhya Kanda – Sarga 7 (Valmiki Ramayana)

The wicked Manthara

Valmiki Ramayana – Kanda 2 – Sarga 7

ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता |
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया || २-७-१

सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् |
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत || २-७-२

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् |
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् || २-७-३
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् |
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्|| २-७-४
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् |
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ||२-७-५
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् |
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत|| २-७-६

प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् |
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा || २-७-७

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती |
राममाता धनं किं नु जनेभ्यः संप्रयच्छति | २-७-८

अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे |
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः || २-७-९

विदीर्यमाणा हर्षेण धात्री तु परया मुदा |
आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् || २-७-१०

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् |
राजा दशरथो राममभिषेचयितानघम् || २-७-११

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता |
कैलासशिखराकारात्प्रासादादवरोहत || २-७-१२

सा दह्यमाना कोपेन मनथरा पापदर्शिनी |
शयनामेत्य कैकेयीमिदं वचन मब्रवीत् || २-७-१३

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते |
उपप्लुतमघौघेन किमात्मानं न बुध्यसे || २-७-१४

अनिष्टे सुभगाकारे सौभग्येन विकत्थसे |
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ||२-७-१५

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः |
कुब्जया पापदर्शिन्या विषादमगमत्परम् || २-७-१६

कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे |
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् || २-७-१७

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् |
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा || २-७-१८

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी |
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् || २-७-१९

अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् |
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति || २-७-२०

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता |
दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता || २-७-२१

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् |
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः || २-७-२२

नराधिपकुले जाता महिषी त्वं महीपतेः |
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे || २-७-२३

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः |
शुद्धभावे न जानीषे तेनैवमतिसन्धिता || २-७-२४

उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् |
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति || २-७-२५

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु |
काल्यं स्थापयिता रामं राज्ये निहतकण्टके || २-७-२६

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया |
आशीविष इवाङ्केन बाले परिधृतस्त्वया || २-७-२७

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः |
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता || २-७-२८

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते |
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि || २-७-२९

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव |
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने || २-७-३०

मन्थराया वचः श्रुत्वा शयनात्स शुभानना |
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी || २-७-३१

अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता |
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् || २-७-३२

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा |
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् || २-७-३३

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् |
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते || २-७-३४

रामे वा भरते वाहं विशेषं नोपलक्षये |
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति || २-७-३५

न मे परम् किञ्चि दितस्त्वयापि न |
प्रियं प्रियार्हे सुवचम् वचो परम् |
तथा ह्यवोचस्त्वमतः प्रियोत्तरं |
वरं वरं ते प्रददामि तं वृणु || २-७-३६

|| इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment