Bala Kanda – Sarga 76 (Valmiki Ramayana)

Parashu Rama’s pride is hurt

Valmiki Ramayana – Kanda 1 – Sarga 76

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा |
गौरवाद्यंत्रितकथः पितू राममथाब्रवीत् || १-७६-१

कृतवानस्मि यत् कर्म श्रुतवानसि भार्गव |
अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः || १-७६-२

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव |
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् || १-७६-३

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् |
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः || १-७६-४

आरोप्य स धनू रामः शरं सज्यं चकार ह |
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम् || १-७६-५

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च |
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् || १-७६-६

इमां वा त्वद्गतिं राम तपोबलसमार्जितान् |
लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि || १-७६-७

न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः |
मोघः पतति वीर्येण बलदर्पविनाशनः || १-७६-८

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः |
पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः || १-७६-९
गंधर्वाप्सरसश्चैव सिद्धचारणकिन्नराः |
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् || १-७६-१०

जडीकृते तदा लोके रामे वरधनुर्धरे |
निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत || १-७६-११

तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः |
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह || १-७६-१२

काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा |
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् || १-७६-१३

सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् |
तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह || १-७६-१४

तमिमां मद्गतिं वीर हन्तुं नार्हसि राघव |
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् || १-७६-१५

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया |
जहि तान् शरमुख्येन मा भूत् कालस्य पर्ययः || १-७६-१६

अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् |
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप || १-७६-१७

एते सुरगणाः सर्वे निरीक्षन्ते समागताः |
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे || १-७६-१८

न चेयं तव काकुत्स्थ व्रीडा भवितुमर्हति |
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः || १-७६-१९

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत |
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् || १-७६-२०

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् |
रामो दाशरथिः श्रीमान् चिक्षेप शरमुत्तमम् || १-७६-२१

स हतान् दृश्य रामेण स्वान् लोकांस्तपसार्जितान् |
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् || १-७६-२२

ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा |
सुराः सर्षिगणाः रामं प्रशशंसुरुदायुधम् || १-७६-२३

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च |
ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः || १-७६-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment