Legends of shiva and Vishnu bows
Valmiki Ramayana – Kanda 1 – Sarga 75
राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम् |
धनुषो भेदनं चैव निखिलेन मया श्रुतम् || १-७५-१
तदद्भुतमचिंत्यं च भेदनं धनुषस्तथा |
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् || १-७५-२
तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः |
पूरयस्व शरेणैव स्वबलं दर्शयस्व च || १-७५-३
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे |
द्वंद्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव || १-७५-४
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा |
विषण्णवदनो दीनः प्रांजलिर्वाक्यमब्रवीत् || १-७५-५
क्षत्ररोषात् प्रशांतस्त्वं ब्राह्मणश्च महातपाः |
बालानां मम पुत्राणामभयं दातुमर्हसि || १-७५-६
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् |
सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि || १-७५-७
स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् |
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः || १-७५-८
मम सर्वविनाशाय संप्राप्तस्त्वं महामुने |
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् || १-७५-९
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् |
अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत || १-७५-१०
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते |
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा || १-७५-११
अनिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे |
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया || १-७५-१२
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः |
तदिदं वैष्णवं राम धनुः परपुरञ्जयम् || १-७५-१३
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् |
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् || १-७५-१४
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया |
अभिप्रायं तु विज्ञाय देवतानां पितामहः || १-७५-१५
विरोधं जनयामास तयोः सत्यवतां वरः |
विरोधे तु महद्युद्धमभवद्रोमहर्षणम् || १-७५-१६
शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः |
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् || १-७५-१७
हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः |
देवैस्तदा समागम्य सर्षिसन्घैः सचारणैः || १-७५-१८
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ |
जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः || १-७५-१९
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा |
धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः || १-७५-२०
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् |
इदं च वैष्णवं राम धनुः परपुरञ्जयम् || १-७५-२१
ऋचीके भार्गवे प्रादाद्विष्णुः सन्यासमुत्तमम् |
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः || १-७५-२२
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः |
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते || १-७५-२३
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः |
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् |
क्षत्रमुत्सादयन् रोषाज्जातं जातमनेकशः || १-७५-२४
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने |
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे || १-७५-२५
दत्त्वा महेन्द्रनिलयः तपोबलसमन्वितः |
श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः || १-७५-२६
तदेवं वैष्णवं राम पितृपैतामहं महत् |
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् || १-७५-२७
योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् |
यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः || १-७५-२८
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचसप्ततितमः सर्गः
3 thoughts on “Bala Kanda – Sarga 75 (Valmiki Ramayana)”
Alright, checking out Dichoso777! Heard some buzz about it. Hope it lives up to the hype! Will definitely keep an eye on their updates and see what’s new. Fingers crossed for some good wins! Give dichoso777 a shot, fellas!
MAN79CLUB is where I unwind after a long day. Good vibes and solid gaming experience. Check them out at: man79club
Yo, mu99io! Heard some good things, gonna check it out and see if it lives up to the hype. Fingers crossed for some wins! Check it out yourself: mu99io