Bala Kanda – Sarga 66 (Valmiki Ramayana)

Legend of shiva’s bow

Valmiki Ramayana – Kanda 1 – Sarga 66

ततः प्रभाते विमले कृतकर्मा नराधिपः |
विश्वामित्रं महात्मानमाजुहाव सराघवम् || १-६६-१

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा |
राघवौ च महात्मानौ तदा वाक्यमुवाच ह || १-६६-२

भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ |
भवानाज्ञापयतु मामाज्ञाप्यो भवताह्यहम् || १-६६-३

एवमुक्तः स धर्मात्मा जनकेन महात्मना |
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः || १-६६-४

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ |
द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति || १-६६-५

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ |
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः || १-६६-६

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् |
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति || १-६६-७

देवरात इति ख्यातो निमेः षष्ठो महीपतिः |
न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना || १-६६-८

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् |
रुद्रस्तु त्रिदशान् रोषात् सलीलमिदमब्रवीत् || १-६६-९

यस्माद्भागार्थिनो भागं नाकल्पयत मे सुराः |
वरांगाणि महार्हाणि धनुषा शातयामि वः || १-६६-१०

ततो विमनसः सर्वे देवा वै मुनिपुंगव |
प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः || १-६६-११

प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम् |
तदेतद्देवदेवस्य धनूरत्नं महात्मनः || १-६६-१२
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभो |

अथ मे कृषतः क्षेत्रं लांगलादुत्थिता मम || १-६६-१३
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता |

भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा || १-६६-१४
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा |

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् || १-६६-१५
वरयामासुरागम्य राजानो मुनिपुंगव |

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् || १-६६-१६
वीर्यशुल्केति भगवन्न ददामि सुतामहम् |

ततः सर्वे नृपतयः समेत्य मुनिपुंगव || १-६६-१७
मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा |

तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् || १-६६-१८
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा |

तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने || १-६६-१९
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन |

ततः परमकोपेन राजानो मुनिपुंगव || १-६६-२०
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः |

आत्मानमवधूतं ते विज्ञाय मुनिपुंगव || १-६६-२१
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् |

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः || १-६६-२२
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः |

ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् || १-६६-२३
ददुश्च परमप्रीताश्चतुरंगबलं सुराः |

ततो भग्ना नृपतयो हन्यमाना दिशो ययुः || १-६६-२४
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः |

तदेतन्मुनिशार्दूल धनुः परमभास्वरम् || १-६६-२५
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत |

यद्यस्य धनुषो रामः कुर्यादारोपणं मुने |
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् || १-६६-२६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्षष्टितमः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment