Bala Kanda – Sarga 64 (Valmiki Ramayana)

Legend of Vishvamitra continues

Valmiki Ramayana – Kanda 1 – Sarga 64

सुरकार्यमिदं रंभे कर्तव्यं सुमहत्त्वया |
लोभनं कौशिकस्येह काममोहसमन्वितम् || १-६४-१

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता |
व्रीडिता प्रांजलिर्वाक्यं प्रत्युवाच सुरेश्वरम् || १-६४-२

अयं सुरपते घोरो विश्वामित्रो महामुनिः |
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः || १-६४-३
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि |

एवमुक्तस्तया राम सभयं भीतया तदा || १-६४-४
तामुवाच सहस्राक्षो वेपमानां कृतांजलिम् |

मा भैषि रंभे भद्रं ते कुरुष्व मम शासनम् || १-६४-५
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे |
अहं कंदर्पसहितः स्थास्यामि तव पार्श्वतः || १-६४-६

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् |
तमृषिं कौशिकं रंभे भेदयस्व तपस्विनम् || १-६४-७

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् |
लोभयामास ललिता विश्वामित्रं शुचिस्मिता || १-६४-८

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् |
संप्रहृष्टेन मनसा स एनामन्वैक्षत || १-६४-९

अथ तस्य च शब्देन गीतेनाप्रतिमेन च |
दर्शनेन च रंभाया मुनिः संदेहमागतः || १-६४-१०

सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः |
रंभां क्रोधसमाविष्टः शशाप कुशिकात्मजः || १-६४-११

यन्मां लोभयसे रंभे कामक्रोधजयैषिणम् |
दश वर्षसहस्राणि शैली स्थास्यसि दुर्भगे || १-६४-१२

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः |
उद्धरिष्यति रंभे त्वां मत्क्रोधकलुषीकृताम् || १-६४-१३

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः |
अशक्नुवन् धारयितुं कोपं संतापमागतः || १-६४-१४

तस्य शापेन महता रम्भा शैली तदाभवत् |
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः || १-६४-१५

कोपेन स महातेजास्तपोऽपहरणे कृते |
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः || १-६४-१६

बभूवास्य मनश्चिंता तपोऽपहरणे कृते |
नैव क्रोधं गमिष्यामि न च वक्ष्ये कथंचन || १-६४-१७

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि |
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः || १-६४-१८

तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् |
अनुच्छ्वसन्नभुंजास्तिष्ठेयं शाश्वतीः समाः || १-६४-१९
न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः |

एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः |
चकार प्रतिमां लोके प्रतिज्ञां रघुन्ंदन || १-६४-२०

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःषष्टितमः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment