Bala Kanda – Sarga 61 (Valmiki Ramayana)

Lend of shunashshepa

Valmiki Ramayana – Kanda 1 – Sarga 61

विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन् |
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः || १-६१-१

महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् |
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः || १-६१-२

पश्चिमायां विशालायां पुष्करेषु महात्मनः |
सुखं तपश्चरिष्यामः परं तद्धि तपोवनम् || १-६१-३

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः |
तप उग्रं दुराधर्षं तेपे मूलफलाशनः || १-६१-४

एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान् |
अंबरीष इति ख्यातो यष्टुं समुपचक्रमे || १-६१-५

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह |
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् || १-६१-६

पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात् |
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर || १-६१-७

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ |
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते || १-६१-८

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ |
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः || १-६१-९

देशान् जनपदांस्तांस्तान्नगराणि वनानि च |
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः || १-६१-१०
स पुत्रसहितं तात सभार्यं रघुनंदन |
भृगुतुंगे समासीनमृचीकं संददर्श ह || १-६१-११

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च |
महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः || १-६१-१२
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः |

गवां शतसहस्रेण विक्रीणीषे सुतं यदि || १-६१-१३
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव |

सर्वे परिगता देशा यज्ञियं न लभे पशुम् || १-६१-१४
दातुमर्हसि मूल्येन सुतमेकमितो मम |

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः || १-६१-१५
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन |

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् || १-६१-१६
उवाच नरशार्दूलमंबरीषमिदं वचः |

अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः || १-६१-१७
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो |
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव || १-६१-१८

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः |
मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम् || १-६१-१९

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च |
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् || १-६१-२०

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् |
विक्रेतं मध्यमं मन्ये राजपुत्र नयस्व माम् || १-६१-२१

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः |
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः || १-६१-२२
गवां शतसहस्रेण शुनःशेपं नरेश्वरः |
गृहीत्वा परमप्रीतो जगाम रघुनंदन || १-६१-२३

अंबरीषस्तु राजर्षी रथमारोप्य सत्वरः |
शुनःशेपं महातेजा जगामाशु महायशाः || १-६१-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment