Bala Kanda – Sarga 57 (Valmiki Ramayana)

The Legend of Trishanku

Valmiki Ramayana – Kanda 1 – Sarga 57

ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः |
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना || १-५७-१
सदक्षिणां दिशं गत्वा महिष्या सह राघव |
तताप परमं घोरं विश्वामित्रो महातपाः || १-५७-२
फलमूलाशनो दान्तैश्चचार सुमहत्तपः |

अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः || १-५७-३
हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः |

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः || १-५७-४
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् |
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज || १-५७-५

अनेन तपसा त्वां हि राजर्षिरिति विद्महे |
एवमुक्त्वा महातेजा जगाम सह दैवतैः || १-५७-६
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः |

विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः || १-५७-७
दुःखेन महताविष्टः समन्युरिदमब्रवीत् |

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः || १-५७-८
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् |

एवं निश्चित्य मनसा भूय एव महातपाः || १-५७-९
तपश्चचार काकुत्स्थ परमं परमात्मवान् |

एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः || १-५७-१०
त्रिशंकुरिति विख्यात इक्ष्वाकुकुलवर्धनः |

तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव || १-५७-११
गच्छेयं स्वशरीरेण देवानां परमां गतिम् |
वसिष्ठं स समाहूय कथयामास चिन्तितम् || १-५७-१२

अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना |
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् || १-५७-१३
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः |

वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे || १-५७-१४
त्रिशंकुः सुमहातेजाः शतं परमभास्वरम् |
वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः || १-५७-१५

सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् |
अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखः || १-५७-१६
अब्रवीत् स महात्मनः सर्वानेव कृतांजलिः |

शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः || १-५७-१७
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना |

यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ || १-५७-१८
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये |

शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् || १-५७-१९
ते मां भवन्तः सिद्ध्यर्थं याजयंतु समाहिताः |
सशरीरो यथाहं वै देवलोकमवाप्नुयाम् || १-५७-२०

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः |
गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन || १-५७-२१

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः |
तस्मादनंतरं सर्वे भवन्तो दैवतं मम || १-५७-२२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तपंचाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment