Bala Kanda – Sarga 56 (Valmiki Ramayana)

Vashista nullifies Vishvamitra’s missiles

Valmiki Ramayana – Kanda 1 – Sarga 56

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः |
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् || १-५६-१

ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम् |
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् || १-५६-२

क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय |
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज || १-५६-३

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् |
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन || १-५६-४

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् |
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा || १-५६-५

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा |
ऐषीकं चापि चिक्षेप रुषितो गाधिनंदनः || १-५६-६

मानवं मोहनं चैव गांधर्वं स्वापनं तथा |
जृंभणं मादनं चैव संतापनविलापने || १-५६-७

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् |
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च || १-५६-८

पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा |
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च || १-५६-९

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च |
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा || १-५६-१०

शक्तिद्वयं च चिक्षेप कंकालं मुसलं तथा |
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् || १-५६-११

त्रिशूलमस्त्रं घोरं च कापालमथ कंकणम् |
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनंदन || १-५६-१२
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् |

तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः || १-५६-१३
तेषु शांतेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनंदनः |

तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः || १-५६-१४
देवर्षयश्च संभ्रांता गंधर्वाः समहोरगाः |
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते || १-५६-१५

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा |
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव || १-५६-१६

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः |
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् || १-५६-१७

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः |
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः || १-५६-१८

प्राज्वलत् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः |
विधूम इव कालाग्निर्यमदण्ड इवापरः || १-५६-१९

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् |
अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा || १-५६-२०
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः |
प्रसीद जपतां श्रेष्ठलोकाः सन्तु गतव्यथाः || १-५६-२१

एवमुक्तो महातेजाः शमं चक्रे महातपाः |
विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् || १-५६-२२

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् |
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे || १-५६-२३

तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः |
तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् || १-५६-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्पंचाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment