Bala Kanda – Sarga 53 (Valmiki Ramayana)

Vishvamitra tries to gain Kaamadhenu

Valmiki Ramayana – Kanda 1 – Sarga 53

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन |
विदधे कामधुक्कामान् यस्य यस्येप्सितं यथा || १-५३-१

इक्षून्मधूंस्तथा लाजान् मैरेयांश्च वरासवान् |
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा || १-५३-२

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः |
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च || १-५३-३
नानास्वादुरसानां च खाण्डवानां [षाडवानां] तथैव च |
भाजनानि [भोजनानि] सुपूर्णानि गौडानि च सहस्रशः || १-५३-४

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् |
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् || १-५३-५

विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् |
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः || १-५३-६

सामात्यो मंत्रिसहितः सभृत्यः पूजितस्तदा |
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् || १-५३-७

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः |
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद || १-५३-८

गवां शतसहस्रेण दीयतां शबला मम |
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः || १-५३-९
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज |

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः || १-५३-१०
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् |

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् || १-५३-११
राजन् दास्यामि शबलां राशिभी रजतस्य वा |

न परित्यागमर्हेयं मत्सकाशादरिन्दम || १-५३-१२
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा |

अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च || १-५३-१३
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च |

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा || १-५३-१४
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः |

सर्वस्वमेतत्सत्येन मम तुष्टिकरी तथा || १-५३-१५
कारणैर्बहुभी राजन्न दास्ये शबलां तव |

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्तदा || १-५३-१६
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः |

हैरण्यकक्ष्याग्रैवेयान् सुवर्णांकुशभूषितान् || १-५३-१७
ददामि कुंजराणां ते सहस्राणि चतुर्दश |

हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् || १-५३-१८
ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् |

हयानां देशजातानां कुलजानां महौजसाम् |
सहस्रमेकं दश च ददामि तव सुव्रत || १-५३-१९

नानावर्णविभक्तानां वयःस्थानां तथैव च |
ददाम्येकां गवां कोटिं शबला दीयतां मम || १-५३-२०

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम |
तावद्ददामि ते सर्वं दीयतां शबला मम || १-५३-२१

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता |
न दास्यामीति शबलां प्राह राजन् कथंचन || १-५३-२२

एतदेव हि मे रत्नं एतदेव हि मे धनम् |
एतदेव हि सर्वस्वमेतदेव हि जीवितम् || १-५३-२३

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः |
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा || १-५३-२४

अतो मूलाः क्रियाः सर्वा मम राजन्न संशयः |
बहूना किं प्रलापेन न दास्ये कामदोहिनीम् || १-५३-२५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिपंचाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment