Bala Kanda – Sarga 52 (Valmiki Ramayana)

He legend of Vishvamitra- continue

Valmiki Ramayana – Kanda 1 – Sarga 52

तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः |
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् || १-५२-१

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना |
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह || १-५२-२

उपविष्टाय च तदा विश्वामित्राय धीमते |
यथान्यायं मुनिवरः फलमूलमुपाहरत् || १-५२-३

प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तमः |
तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत || १-५२-४
विश्वामित्रो महातेजा वनस्पतिगणे तथा |
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमः || १-५२-५

सुखोपविष्टं राजानं विश्वामित्रं महातपाः |
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः || १-५२-६

कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रंजयन् |
प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक || १-५२-७

कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने |
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन || १-५२-८

कच्चित् बले च कोशे च मित्रेषु च परंतप |
कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ || १-५२-९

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् |
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् || १-५२-१०

कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा |
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् || १-५२-११

ततो वसिष्ठो भगवान् कथान्ते रघुनंदन |
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव || १-५२-१२

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल |
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे || १-५२-१३

सत्क्रियां तु भवानेतां प्रतीच्छतु मया कृताम् |
राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः || १-५२-१४

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः |
कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया || १-५२-१५

फलमूलेन भगवन्विद्यते यत्तवाश्रमे |
पाद्येनाचमनीयेन भगवद्दर्शनेन च || १-५२-१६
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः |
नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा || १-५२-१७

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि |
न्यमंत्रयत धर्मात्मा पुनः पुनरुदारधीः || १-५२-१८

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह |
यथा प्रियं भगवतस्तथास्तु मुनिसत्तम || १-५२-१९

एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः |
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः || १-५२-२०

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम |
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् |
भोजनेन महार्हेण सत्कारं संविधत्स्व मे || १-५२-२१

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् |
तत्सर्वं कामधुक् दिव्ये अभिवर्ष कृते मम || १-५२-२२

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् |
अन्नानां निचयं सर्वं सृजस्व शबले त्वर || १-५२-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment