Bala Kanda – Sarga 49 (Valmiki Ramayana)

Redemption of Ahalya from her curse

Valmiki Ramayana – Kanda 1 – Sarga 49

अफलस्तु ततः शक्रो देवानग्निपुरोगमान् |
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान् || १-४९-१

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः |
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् || १-४९-२

अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता |
शापमोक्षेण महता तपोऽस्यापहृतं मया || १-४९-३

तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः |
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ || १-४९-४

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः |
पितृदेवानुपेत्याहुः सह सर्वैः मरुद्गणैः || १-४९-५

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः |
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत || १-४९-६

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति |
भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः |
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् || १-४९-७

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः |
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् || १-४९-८

तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः |
अफलान् भुंजते मेषान् फलैस्तेषामयोजयन् || १-४९-९

इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव |
गौतमस्य प्रभावेन तपसा च महात्मनः || १-४९-१०

तदागच्छ महातेज आश्रमं पुण्यकर्मणः |
तारयैनां महाभागामहल्यां देवरूपिणीम् || १-४९-११

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः |
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह || १-४९-१२

ददर्श च महाभागां तपसा द्योतितप्रभाम् |
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः || १-४९-१३
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव |
धूमेनाभिपरीताङ्गीं दीप्तामग्निशिखामिव || १-४९-१४
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव |
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव || १-४९-१५

सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह |
त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् |१-४९-१६

शापस्यान्तमुपागम्य तेषां दर्शनमागता ||
राघवौ तु ततस्तस्याः पादौ जगृहतुर्मुदा | १-४९-१७

स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ||
पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता |
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा || १-४९-१८

पुष्पवृष्टिर्महत्यासीद्देवदुंदुभिनिस्वनैः |
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः || १-४९-१९

साधु साध्विति देवास्तामहल्यां समपूजयन् |
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् || १-४९-२०

गौतमोऽपि महातेजा अहल्यासहितः सुखी |
रामं संपूज्य विधिवत्तपस्तेपे महातपाः || १-४९-२१

रामोऽपि परमां पूजां गौतमस्य महामुनेः |
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः || १-४९-२२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनपंचाशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment