Bala Kanda – Sarga 47 (Valmiki Ramayana)

The legend of Seven-maruts, wind-gods

Valmiki Ramayana – Kanda 1 – Sarga 47

सप्तधा तु कृते गर्भे दितिः परमदुःखिता |
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् || १-४७-१

ममापराधाद्गर्भोऽयं सप्तधा शकलीकृतः |
नापराधो हि देवेश तवात्र बलसूदन || १-४७-२

प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये |
मरुतां सप्तसप्तानां स्थानपाला भवन्तु ते || १-४७-३

वातस्कंधा इमे सप्त चरन्तु दिवि पुत्रक |
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ||१-४७-४

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः |
दिव्यवायुरिति ख्यातः तृतीयोऽपि महायशाः ||१-४७-५

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् |
संचरिष्यन्ति भद्रं ते कलेन हि ममात्मजाः ||१-४७-६
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः |

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ||१-४७-७
उवाच प्रांजलिर्वाक्यं दितिं बलनिषूदनः |

सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ||१-४७-८
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः |
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ||१-४७-९
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् |

एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा || १-४७-१०
दितिं यत्र तपःसिद्धामेवं परिचचार सः |

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः || १-४७-११
अलंबुषायामुत्पन्नो विशाल इति विश्रुतः |
तेन चासीदिह स्थाने विशालेति पुरी कृता || १-४७-१२

विशालस्य सुतो राम हेमचन्द्रो महाबलः |
सुचन्द्र इति विख्यातो हेमचन्द्रादनंतरः || १-४७-१३

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः |
धूम्राश्वतनयश्चापि सृंजयः समपद्यत || १-४७-१४

सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् |
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः || १-४७-१५

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् |
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ||१-४७-१६

तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् |
आवसत्परमप्रख्यः सुमतिर्नाम दुर्जयः || १-४७-१७

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः |
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः || १-४७-१८

इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम् |
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि || १-४७-१९

सुमतिस्तु महातेजा विश्वामित्रमुपागतम् |
श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन् महायशाः || १-४७-२०

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः |
प्रांजलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् || १-४७-२१

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने |
संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम || १-४७-२२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment