Bala Kanda – Sarga 46 (Valmiki Ramayana)

Lady diti seeks for a son to kill Indra

Valmiki Ramayana – Kanda 1 – Sarga 46

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता |
मारीचं काश्यपं राम भर्तारमिदमब्रवीत् || १-४६-१

हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः |
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ||१-४६-२

साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि |
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि || १-४६-३

तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा |
प्रत्युवाच महातेजा दितिं परमदुःखिताम् || १-४६-४

एवं भवतु भद्रं ते शुचिर्भव तपोधने |
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ||१-४६-५

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि |
पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि ||१-४६-६

एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् |
तमालभ्य ततः स्वस्तीत्युक्त्वा तपसे ययौ ||१-४६-७

गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता |
कुशप्लवं सामासाद्य तपस्तेपे सुदारुणम् ||१-४६-८

तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह |
सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा || १-४६-९

अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च |
न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ||१-४६-१०

गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा |
शक्रः सर्वेषु कालेषु दितिं परिचचार ह || १-४६-११

पूर्णे वर्षसहस्रे तु दशोने रघुनंदन |
दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत् ||१-४६-१२

तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर |
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ||१-४६-१३

यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम् |
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः || १-४६-१४

याचितेन सुरश्रेष्ट पित्रा तव महात्मना |
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति || १-४६-१५

इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यन्दिनेश्वरे |
निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ||१-४६-१६

दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम् |
शिरःस्थाने कृतौ पादौ जहास च मुमोद च || १-४६-१७

तस्याः शरीरविवरं प्रविवेश पुरंदरः |
गर्भं च सप्तधा राम चिच्छेद परमात्मवान् ||१-४६-१८

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा |
रुरोद सुस्वरं राम ततो दितिरबुध्यत || १-४६-१९

मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत |
बिभेद च महातेजा रुदन्तमपि वासवः || १-४६-२०

न हन्तव्यं न हन्तव्यमित्येवं दितिरब्रवीत् |
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ||१-४६-२१

प्रांजलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत |
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा|| १-४६-२२

तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे |
अभिदं सप्तधा देवि तन्मे त्वम् क्षन्तुमर्हसि || १-४६-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment