Bala Kanda – Sarga 44 (Valmiki Ramayana)

Brahma commends Bhageeratha

Valmiki Ramayana – Kanda 1 – Sarga 44

स गत्वा सागरं राजा गंगयानुगतस्तदा |
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः || १-४४-१

भस्मन्यथाप्लुते राम गंगायाः सलिलेन वै |
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् || १-४४-२

तारिता नरशार्दूल दिवं याताश्च देववत् |
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः || १-४४-३

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव |
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ||१-४४-४

इयं च दुहिता ज्येष्ठा तव गंगा भविष्यति |
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ||१-४४-५

गंगा त्रिपथगा नाम दिव्या भागीरथीति च |
त्रीन्पथो भावयन्तीति तस्मत्त्रिपथगा स्मृता || १-४४-६

पितामहानां सर्वेषां त्वमत्र मनुजाधिप |
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय || १-४४-७

पूर्वकेण हि ते राजंस्तेनातियशसा तदा |
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः || १-४४-८

तथैवांशुमता वत्स लोकेऽप्रतिमतेजसा |
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता || १-४४-९

राजर्षिणा गुणवता महर्षिसमतेजसा |
मत्तुल्यतपसा चैव क्षत्रधर्मे स्थितेन च || १-४४-१०
दिलीपेन महाभाग तव पित्रातितेजसा |
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ || १-४४-११

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ |
प्राप्तोऽसि परमं लोके यशः परमसंमतम् || १-४४-१२

तच्च गंगावतरणं त्वया कृतमरिन्दम |
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् || १-४४-१३

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते |
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव || १-४४-१४

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् |
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप || १-४४-१५

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः |
यथागतं तथागच्छद्देवलोकं महायशाः || १-४४-१६

भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् |
यथाक्रमं यथान्यायं सागराणां महायशाः || १-४४-१७
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह |
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ||१-४४-१८

प्रमुमोद च लोकस्तं नृपमासाद्य राघव |
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः || १-४४-१९

एष ते राम गंगाया विस्तरोऽभिहितो मया |
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते || १-४४-२०

धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च |
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च || १-४४-२१
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च |

इदमाख़्यनमायुष्यं गंगावतरणं शुभम् || १-४४-२२
यः श्रुणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् |
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते || १-४४-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment