Bala Kanda – Sarga 42 (Valmiki Ramayana)

King Bhageeratha’s effort to bring river ganga ion to the earth

Valmiki Ramayana – Kanda 1 – Sarga 42

कालधर्मं गते राम सगरे प्रकृतीजनाः |
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् || १-४२-१

स राजा सुमहानासीदंशुमान् रघुनंदन |
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः || १-४२-२

तस्मै राज्यं समादिश्य दिलीपे रघुनंदन |
हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् || १-४२-३

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः |
तपोवनगतो राजा स्वर्गं लेभे तपोधनः || १-४२-४

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् |
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत || १-४२-५

कथं गंगावतरणं कथं तेषां जलक्रिया |
तारयेयं कथं चैतानिति चिंतापरोऽभवत् || १-४२-६

तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः |
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ||१-४२-७

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् |
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् || १-४२-८

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति |
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् || १-४२-९

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा |
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः || १-४२-१०

भगीरथस्तु राजर्षिर्धार्मिको रघुनंदन |
अनपत्यो महाराजः प्रजाकामः स च प्रजाः || १-४२-११

मंत्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः|
तपो दीर्घं समातिष्ठद्गोकर्णे रघुनंदन || १-४२-१२
ऊर्ध्वबाहुः पंचतपा मासाहारो जितेन्द्रियः |

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः || १-४२-१३
अतीतानि महाबहो तस्य राज्ञो महात्मनः |
सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः || १-४२-१४

ततः सुरगणैः सार्धमुपागम्य पितामहः |
भगीरथं महात्मानं तप्यमानमथाब्रवीत् || १-४२-१५

भगीरथ महाराग प्रीतस्तेऽहं जनाधिप |
तपसा च सुतप्तेन वरं वरय सुव्रत || १-४२-१६

तमुवाच महातेजाः सर्वलोकपितामहम् |
भगीरथो महाबाहुः कृतांजलिपुटः स्थितः || १-४२-१७

यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम् |
सगरस्यात्मजाः सर्वे मत्तः सलिलस्याप्नुयुः || १-४२-१८

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् |
स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः || १-४२-१९

देव याचे ह संतत्यै नावसीदेत्कुलं च नः |
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः || १-४२-२०

उक्तवाक्यं तु राजानं सर्वलोकपितामहः |
प्रत्युवाच शुभां वाणीं मधुरं मधुराक्षराम् || १-४२-२१

मनोरथो महानेष भगीरथ महारथ |
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन || १-४२-२२

इयं हैमवती ज्येष्ठा गंगा हिमवतः सुता |
तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् || १-४२-२३

गंगायाः पतनं राजन् पृथिवी न सहिष्यते |
तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः || १-४२-२४

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् |
जगाम त्रिदिवं देवैः सह सर्वैर्मरुद्गणैः || १-४२-२५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment