Bala Kanda – Sarga 41 (Valmiki Ramayana)

Sagara’s grandson Amshuman’s search for the horse

Valmiki Ramayana – Kanda 1 – Sarga 41

पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनंदन |
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा || १-४१-१

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा |
पितृणां गतिमन्विच्छ येन चाश्वोऽपहारितः || १-४१-२

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च |
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् || १-४१-३

अभिवाद्याभिवाद्यांस्त्वां हत्वा विघ्नकरानपि |
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः || १-४१-४

एवमुक्तो ंऽशुमान् सम्यक्सगरेण महात्मना |
धनुरादाय खड्गं च जगाम लघुविक्रमः || १-४१-५

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः |
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः || १-४१-६

देवदानवरक्षोभिः पिशाचपतगोरगैः |
पूज्यमानं महातेजा दिशागजमपश्यत || १-४१-७

स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् |
पितृन् स परिपप्रच्छ वाजिहर्तारमेव च || १-४१-८

दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः |
आसमंज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि || १-४१-९

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् |
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे || १-४१-१०

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः |
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः || १-४१-११

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः |
भस्मराशीकृता यत्र पितरस्तस्य सागराः || १-४१-१२

स दुःखवशमापन्नस्त्वसमंजसुतस्तदा |
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः || १-४१-१३

यज्ञियं च हयं तत्र चरन्तमविदूरतः |
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः || १-४१-१४

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् |
स जलार्थं महातेजा न चापश्यज्जलाशयम् || १-४१-१५

विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् |
पितृणां मातुलं राम सुपर्णमनिलोपमम् || १-४१-१६

स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः |
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः || १-४१-१७

कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः |
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् || १-४१-१८

गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ |
तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् || १-४१-१९

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी |
तया क्लिन्नमिदं भस्म गंगया लोककान्तया |
षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति || १-४१-२०

गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ |
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि || १-४१-२१

सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् |
त्वरितं हयमादाय पुनरायान्महायशाः || १-४१-२२

ततो राजानमासाद्य दीक्षितं रघुनंदन |
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा || १-४१-२३

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः |
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि || १-४१-२४

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः |
गंगायाश्चागमे राजा निश्चयं नाध्यगच्छत || १-४१-२५

अगत्वा निश्चयं राजा कालेन महता महान् |
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः || १-४१-२६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment