Bala Kanda – Sarga 40 (Valmiki Ramayana)

Sage Kapila burns the sons of Sagara

Valmiki Ramayana – Kanda 1 – Sarga 40

देवतानां वचः श्रुत्वा भगवान्वै पितामहः |
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् || १-४०-१

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः|
महिषी माधवस्यैषा स एव भगवान् प्रभुः|| १-४०-२
कापिलं रूपमास्थाय धारयत्यनिशं धराम् |
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः || १-४०-३

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः |
सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ||१-४०-४

पितामह वचः श्रुत्वा त्रयस्त्रिंशदरिन्दम |
देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् || १-४०-५

सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः |
पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः || १-४०-६

ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् |
सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् || १-४०-७

परिक्रांता मही सर्वा सत्त्ववन्तश्च सूदिताः |
देवदानवरक्षांसि पिशाचोरगपन्नगाः || १-४०-८
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च |
किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् || १-४०-९

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः |
समन्युरब्रवीद्वाक्यं सगरो रघुनंदन || १-४०-१०

भूयः खनत भद्रं वो विभेद्य वसुधातलम्
अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत || १-४०-११

पितुर्वचनमासाद्य सगरस्य महात्मनः |
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् || १-४०-१२

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् |
दिशागजं विरूपाक्षं धारयन्तं महीतलम् || १-४०-१३

सपर्वतवनां कृत्स्नां पृथिवीं रघुनंदन |
धारयामास शिरसा विरूपाक्षो महागजः || १-४०-१४

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः |
खेदाच्चालयते शीर्षं भूमिकंपस्तदा भवेत् || १-४०-१५

ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् |
मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् || १-४०-१६

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः |
दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् || १-४०-१७
महापद्मं महात्मानं सुमहत्पर्वतोपमम् |
शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् || १-४०-१८

ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः |
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् || १-४०-१९

पश्चिमायामपि दिशि महांतमचलोपमम् |
दिशागजं सौमनसं ददृशुस्ते महाबलाः || १-४०-२०

ते तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् |
खनंतः समुपक्रांता दिशं सोमवतीं तदा || १-४०-२१

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् |
भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् || १-४०-२२

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् |
षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् || १-४०-२३

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् |
रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः || १-४०-२४

ते तु सर्वे महत्मानो भीमवेगा महबलाः |
ददृशुः कपिलं तत्र वासुदेवं सनातनम् || १-४०-२५
हयं च तस्य देवस्य चरन्तमविदूरतः |
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन || १-४०-२६

ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः |
खनित्रलांगलधरा नानावृक्षशिलाधराः || १-४०-२७
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् |

अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि || १-४०-२८
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् |

श्रुत्वा तद्वचनं तेषां कपिलो रघुनंदन || १-४०-२९
रोषेण महताविष्टो हुं कारमकरोत्तदा |

ततस्तेनाप्रमेयेण कपिलेन महात्मना |
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः || १-४०-३०

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment