Bala Kanda – Sarga 38 (Valmiki Ramayana)

Legend of emperor sagara

Valmiki Ramayana – Kanda 1 – Sarga 38

तां कथां कौशिको रामे निवेद्य मधुराक्षरम् |
पुन रेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् || १-३८-१

अयोध्याधिपतिर्वीरः पूर्वमासीन्नराधिपः |
सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः || १-३८-२

वैदर्भदुहिता राम केशिनी नाम नामतः |
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी || १-३८-३

अरिष्ठनेमिदुहिता सुपर्णभगिनी तु सा |
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता || १-३८-४

ताभ्यां सह महाराजा पत्नीभ्याम् तप्तवांस्तपः |
हिमवंतं समासाद्य भृगुप्रस्रवणे गिरौ || १-३८-५

अथ वर्षशते पूर्णे तपसाराधितो मुनिः |
सगराय वरं प्रादाद् भृगुः सत्यवतां वरः || १-३८-६

अपत्यलाभः सुमहान् भविष्यति तवानघ |
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ || १-३८-७

एका जनयिता तात पुत्रं वंशकरं तव |
षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति || १-३८-८

भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् |
ऊचतुः परमप्रीते कृतांजलिपुटे तदा || १-३८-९

एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति |
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव || १-३८-१०

तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः |
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् || १-३८-११

एको वंशकरो वास्तु बहवो वा महाबलाः |
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति || १-३८-१२

मुनेस्तु वचनं श्रुत्वा केशिनी रघुनंदन |
पुत्रं वंशकरं राम जग्राह नृपसंनिधौ || १-३८-१३

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा |
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् || १-३८-१४

प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च |
जगाम स्वपुरं राजा सभार्या रघुनन्दन || १-३८-१५

अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत |
असमंज इति ख्यातं केशिनी सगरात्मजम् || १-३८-१६

सुमतिस्तु नरव्याघ्र गर्भतुंबं व्यजायत |
षष्टिः पुत्रसहस्राणि तुंबभेदाद्विनिःसृताः || १-३८-१७

घृतपूर्णेषु कुंभेषु धात्र्यस्तान् समवर्धयन् |
कालेन महता सर्वे यौवनं प्रतिपेदिरे || १-३८-१८

अथ दीर्घेण कालेन रूपयौवनशालिनः |
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा || १-३८-१९

स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः |
बालान् गृहीत्वा तु जले सरय्वा रघुनंदन || १-३८-२०
प्रक्षिप्य प्रहसन् नित्यं मज्जतस्तान् निरीक्ष्य वै |

एवं पापसमाचारः सज्जनप्रतिबाधकः || १-३८-२१
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् |

तस्य पुत्रोंऽशुमान्नाम असमंजस्य वीर्यवान् || १-३८-२२
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः |

ततः कालेन महता मतिः समभिजायत || १-३८-२३
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता |

स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा |
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे || १-३८-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment