Bala Kanda – Sarga 37 (Valmiki Ramayana)

Legend of kaartikeya

Valmiki Ramayana – Kanda 1 – Sarga 37

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः |
सेनापतिमभीप्सन्तः पितामहमुपागमन् || १-३७-१

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् |
प्रणिपत्य सुराः राम सेन्द्राः साग्निपुरोगमाः || १-३७-२

येन सेनापतिर्देव दत्तो भगवता पुरा |
स तपः परमास्थाय तप्यते स्म सहोमया || १-३७-३

यदत्रानंतरं कार्यं लोकानां हितकाम्यया |
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः || १-३७-४

देवतानां वचः श्रुत्वा सर्वलोकपितामहः |
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् || १-३७-५

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु |
तस्या वचनमक्लिष्टं सत्यमेव न संशयः || १-३७-६

इयमाकाशगंगा यस्यां पुत्रं हुताशनः |
जनयिष्यति देवानां सेनापतिमरिंदमम् || १-३७-७

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् |
उमायास्तद्बहुमतं भविष्यति न संशयः || १-३७-८

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन |
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् || १-३७-९

ते गत्वा परमं राम कैलासं धातुमण्डितम् |
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः || १-३७-१०

देवकार्यमिदं देव समाधत्स्व हुताशन |
शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज || १-३७-११

देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः |
गर्भं धारय वै देवि देवतानामिदं प्रियम् || १-३७-१२

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् |
स तस्या महिमां दृष्ट्वा समंतादवकीर्यत || १-३७-१३

समंततस्तदा देवीमभ्यषिंचत पावकः |
सर्वस्रोतांसि पूर्णानि गंगाया रघुनन्दन || १-३७-१४

तमुवाच ततो गंगा सर्वदेवपुरोगमम् |
अशक्ता धारणे देव तेजस्तव समुद्धतम् || १-३७-१५
दह्यमानाग्निना तेन संप्रव्यथितचेतना |

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः || १-३७-१६
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् |

श्रुत्वा त्वग्निवचो गंगा तं गर्भमतिभास्वरम् || १-३७-१७
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ |

यदस्या निर्गतं तस्मात्तप्तजांबूनदप्रभम् || १-३७-१८
कांचनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् |

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत || १-३७-१९
मलं तस्याभवत्तत्र त्रपु सीसकमेव च |
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत || १-३७-२०

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरंजितम् |
सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् || १-३७-२१

जातरूपमिति ख्यातं तदा प्रभृति राघव |
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् |
तृणवृक्षलतागुल्मं सर्वं भवति कांचनम् || १-३७-२२

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः |
क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् || १-३७-२३

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् |
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः || १-३७-२४

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् |
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः || १-३७-२५

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे |
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् || १-३७-२६

स्कंद इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् |
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् || १-३७-२७

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् |
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः || १-३७-२८

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा |
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान्विभुः || १-३७-२९

सुरसेनागणपतिमभ्यषिंचन्महाद्युतिम् |
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः || १-३७-३०

एष ते राम गंगाया विस्तरोऽभिहितो मया |
कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च || १-३७-३१

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः |
आयुष्मान् पुत्र पौत्रश्च स्कन्दसालोक्यतां व्रजेत् || १-३७-३२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment