Bala Kanda – Sarga 36 (Valmiki Ramayana)

Legend of Uma and her curse

Valmiki Ramayana – Kanda 1 – Sarga 36

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ |
प्रतिनन्द्य कथां वीरौ ऊचतुर्मुनिपुंगवम् || १-३६-१

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया |
दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि |
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् || १-३६-२

त्रीन्पथो हेतुना केन पावयेल्लोकपावनी |
कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा || १-३६-३
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता |

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः || १-३६-४
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् |

पुरा रामकृतोद्वाहः शितिकण्ठो महातपाः || १-३६-५
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे |

तस्य संक्रीडमानस्य महादेवस्य धीमतः |
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् || १-३६-६
न चापि तनयो राम तस्यामासीत्परंतप |

सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः || १-३६-७
यदिहोत्पद्यते भूतं कः तत्प्रतिसहिष्यति |

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् || १-३६-८
देव देव महादेव लोकस्यास्य हिते रत |
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि || १-३६-९

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम |
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर || १-३६-१०
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय |
रक्ष सर्वानिमान् लोकान्नालोकं कर्तुमर्हसि || १-३६-११

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः |
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह || १-३६-१२

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया |
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु || १-३६-१३

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् |
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः || १-३६-१४

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् |
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति || १-३६-१५

एवमुक्तः सुरपतिः प्रमुमोच महाबलः |
तेजसा पृथिवी येन व्याप्ता सगिरिकानना || १-३६-१६

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् |
आविश त्वं महातेजो रौद्रं वायुसमन्वितः || १-३६-१७

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् |
दिव्यं शरवणं चैव पावकादित्यसंनिभम् || १-३६-१८
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः |

अथोमां च शिवं चैव देवाः सर्षिगणास्तदा || १-३६-१९
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः |

अथ शैलसुता राम त्रिदशानिदमब्रवीत् || २०
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना |

यस्मान्निवारिता चाहं संगता पुत्रकाम्यया || १-३६-२१
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ |

अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः || १-३६-२२
एवमुक्त्वा सुरान्सर्वान् शशाप पृथिवीमपि |

अवने नैकरूपा त्वं बहुभार्या भविष्यसि || १-३६-२३
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता |
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती || १-३६-२४

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा |
गमनायोपचक्राम दिशं वरुणपालिताम् || १-३६-२५

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः |
हिमवत्प्रभवे शृंगे सह देव्या महेश्वरः || १-३६-२६

एष ते विस्तरो राम शैलपुत्र्या निवेदितः |
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः || १-३६-२७

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment