Bala Kanda – Sarga 35 (Valmiki Ramayana)

Legend of River Ganga

Valmiki Ramayana – Kanda 1 – Sarga 35

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः |
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत || १-३५-१

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते |
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय || १-३५-२

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकक्रियः |
गमनं रोचयामास वाक्यं चेदमुवाच ह || १-३५-३

अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः |
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् || १-३५-४

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् |
एष पंथा मयोद्दिष्टो येन यान्ति महर्षयः || १-३५-५

एवमुक्त्वा महर्षयो विश्वमित्रेण धीमता |
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च || १-३५-६

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा |
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् || १-३५-७

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् |
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः || १-३५-८

तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् |
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः || १-३५-९
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः |
विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः || १-३५-१०
विश्वामित्रं महात्मानं परिवार्य समंततः |

विष्टिताश्च यथान्यायं राघवौ च यथा अर्हम् |
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् || १-३५-११

भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् |
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् || १-३५-१२

चोदितो रामवाक्येन विश्वामित्रो महामुनिः |
वृद्धिं जन्म च गंगाया वक्तुमेवोपचक्रमे || १-३५-१३

शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् |
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि || १-३५-१४

या मेरुदुहिता राम तयोर्माता सुमध्यमा |
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया || १-३५-१५

तस्यां गंगेयमभवज्ज्येष्ठा हिमवतः सुता |
उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव || १-३५-१६

अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया |
शैलेन्द्रं वरयामासुर्गंगां त्रिपथगां नदीम् || १-३५-१७

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् |
स्वच्छंदपथगां गंगां त्रैलोक्यहितकाम्यया || १-३५-१८

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः |
गंगामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना || १-३५-१९

या चान्या शैलदुहिता कन्यासीद्रघुनंदन |
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना || १-३५-२०

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् |
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् || १-३५-२१

एते ते शैलराजस्य सुते लोकनमस्कृते |
गंगा च सरितां श्रेष्ठा उमादेवी च राघव || १-३५-२२

एतत्ते सर्वमाख्यातं यथा त्रिपथगामिनी |
खं गता प्रथमं तात गतिं गतिमतां वर || १-३५-२३

सैषा सुरनदी रम्या शैलेन्द्रतनया तदा |
सुरलोकं समारूढा विपापा जलवाहिनी || १-३५-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचत्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment