Bala Kanda – Sarga 34 (Valmiki Ramayana)

Legend of vishvamitra’s ancestry

Valmiki Ramayana – Kanda 1 – Sarga 34

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव |
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् || १-३४-१

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् |
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा || १-३४-२

पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः |
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् || १-३४-३

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् |
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् || १-३४-४

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः |
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः || १-३४-५

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः |
कुशवंशप्रसूतोऽस्मि कौशिको रघुनंदन || १-३४-६

पूर्वजा भगिनी चापि मम राघव सुव्रता |
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता || १-३४-७

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी |
कौशिकी परमोदारा सा प्रवृत्ता महानदी || १-३४-८

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता |
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम || १-३४-९

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् |
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनंदन || १-३४-१०

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता |
पतिव्रता महाभागा कौशिकी सरितां वरा || १-३४-११

अहं हि नियमाद्राम हित्वा तां समुपागतः |
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा || १-३४-१२

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता |
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि || १-३४-१३

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम |
निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः || १-३४-१४

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः |
नैशेन तमसा व्याप्ता दिशश्च रघुनंदन || १-३४-१५

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् |
नक्षत्रतारागहनं ज्योतिर्भिरवभासते || १-३४-१६

उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः |
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया || १-३४-१७

नैशानि सर्वभूतानि प्रचरंति ततस्ततः |
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः || १-३४-१८

एवमुक्त्वा महातेजा विरराम महामुनिः |
साधु साध्विति ते सर्वे मुनयो ह्यभ्यपूजयन् || १-३४-१९

कुशिकानामयं वंशो महान् धर्मपरः सदा |
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तम || १-३४-२०

विशेषेण भवानेव विश्वामित्रो महायशाः |
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव || १-३४-२१

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः |
निद्रामुपागमच्छ्रीमानस्तं गत इवांशुमान् || १-३४-२२

रामोऽपि सहसौमित्रिः किंचिदागतविस्मयः |
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते || १-३४-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment