Bala Kanda – Sarga 3 (Valmiki Ramayana)

Valmiki gets divine guidance to compile the epic

Valmiki Ramayana – kanda 1 – Sarga 3

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् |
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः || १-३-१

उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः |
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् || १-३-२

रामलक्ष्मणसीताभी राज्ञा दशरथेन च |
सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः || १-३-३
हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् |
तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति || १-३-४

स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने |
सत्यसंधेन रामेण तत्सर्वं चान्ववेक्षितम् || १-३-५

ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः |
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा || १-३-६

तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः |
अभिरामस्य रामस्य चरितं कर्तुमुद्यतः || १-३-७
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् |
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् || १-३-८

स यथा कथितं पुर्वं नारदेन महात्मना |
रघुवंशस्य चरितं चकार भगवान्मुनिः || १-३-९

जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम् |
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् || १-३-१०

नानाचित्रकथाश्चान्या विश्वामित्रसमागमे |
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ||१-३-११

रामरामविवादं च गुणान्दाशरथेस्तथा |
तदाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ||१-३-१२

विघातं चाभिषेकस्य रामस्य च विवासनम् |
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् || १-३-१३

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् |
निषादाधिपसंवादं सूतोपावर्तनं तथा || १-३-१४

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् |
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् || १-३-१५

वास्तुकर्म निवेशं च भरतागमनं तथा |
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् || १-३-१६

पादुकाग्र्याभिषेकं च नन्द्रिग्रामनिवासनम् |
दण्डकारण्यगमनं विराधस्य वधं तथा || १-३-१७

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् |
अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् || १-३-१८

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा |
शुर्पणख्याश्च संवादं विरुपकरणं तथा || १-३-१९

वधं खरत्रिशिरसोरुत्थानं रावणास्य च |
मारीचस्य वधं चैव वैदेह्या हरणं तथा || १-३-२०

राघवस्य विलापं च गृध्रराजनिबर्हणम् |
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ||१-३-२१

शबरीदर्शनं चैव फलमूलाशनं तथा |
प्रलापं चैव पम्पायां हनुमद्दर्शनं तथा || १-३-२२

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् |
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् || १-३-२३

वालिप्रमथनं चैव सुगीवप्रतिपादनम् |
ताराविलापं समयं वर्षरात्रनिवासनम् || १-३-२४

कोपं राघवसिंहस्य बलानामुपसंग्रहम् |
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनं || १-३-२५

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् |
प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम् || १-३-२६

पर्वतारोहणं चापि सागरस्यापि लङ्घनम् |
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् || १-३-२७

राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम् |
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् || १-३-२८

रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् |
आपानभूमिगमनमवरोधस्य दर्शनम् || १-३-२९

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् |
अशोकवनिकायानं सीतायाश्चापि दर्शनम् || १-३-३०

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् |
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् || १-३-३१

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च |
राक्षसीविद्रवं चैव किंकराणां निबर्हणम् |१-३-३२

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् |
प्रतिप्लवनमेवाथ मधूनां हरणं तथा || १-३-३३

राघवाश्वासनं चैव मणिनिर्यातनं तथा |
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् || १-३-३४

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् |
विभीषणेन संसर्गं वधोपायनिवेदनम् || १-३-३५

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्|
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे || १-३-३६

वीभीषणाभिषेकं च पुष्पकस्य च दर्शनम् |
अयोध्यायाश्च गमनं भरद्वाजसमागमम् || १-३-३७

प्रेषणं वायुपुत्रस्य भरतेन समागमम् |
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् |
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् || १-३-३८

अनागतं च यत्किञ्चिद्रामास्य वसुधातले |
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः || १-३-३९

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे तृतीयः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment