Bala Kanda – Sarga 17 (Valmiki Ramayana)

Brahma orders gods to spawn forest-Rangers, Anara-s

Valmiki Ramayana – kanda 1 – Sarga 1

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः |
उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम् || १-१७-१

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः |
विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः || १-१७-२

मायाविदश्च शूरांश्च वायुवेगसमान् जवे |
नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् || १-१७-३
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् |
सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव || १-१७-४
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च |
यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च || १-१७-५
किंनरीणां च गात्रेषु वानरीणां तनूषु च |
सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् || १-१७-६

पूर्वमेव मया सृष्टो जांबवानृक्षपुङ्गवः |
जृंभमाणस्य सहसा मम वक्रादजायत || १-१७-७

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् |
जनयामासुरेवं ते पुत्रान् वानररूपिणः || १-१७-८

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः |
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः || १-१७-९

वानरेन्द्रं महेद्राभमिन्द्रो वालिनमात्मजम् |
सुग्रीवं जनयामास तपनस्तपतां वरः || १-१७-१०

बृहस्पतिस्त्वजनयत्तारं नाम महाकपिम् |
सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् || १-१७-११

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः |
विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् || १-१७-१२

पावकस्य सुतः श्रीमान्नीलोऽग्नि सदृशप्रभः |
तेजसा यशसा वीर्यादत्यरिच्यत वानरान् || १-१७-१३

रूपद्रविणसंपन्नावश्विनौ रूपसंमतौ |
मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् || १-१७-१४

वरुणो जनयामास सुषेणं नाम वानरम् |
शरभं जनयामास पर्जन्यस्तु महाबलम् || १-१७-१५

मारुतस्यौरसः श्रीमान् हनुमान्नाम वानरः |
वज्रसंहननोपेतो वैनतेयसमो जवे || १-१७-१६
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि |

ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः || १-१७-१७
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः |

ते गजाचलसंकाशा वपुष्मंतो महाबलाः || १-१७-१८
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे |

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः || १-१७-१९
अजायत समं तेन तस्य तस्य पृथक् पृथक् |

गोलांगूलीषु चोत्पन्नाः केचिदुन्नतविक्रमाः || १-१७-२०
ऋक्षीषु च तथा जाता वानराः किंनरीषु च |

देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः || १-१७-२१
नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः |
बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः || १-१७-२२
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः |
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः || १-१७-२३
अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च |
नागकन्यासु च तथा गन्धर्वीणां तनूषु च |

कामरूपबलोपेता यथाकामं विचारिणः || १-१७-२४
सिंहशार्दूलसदृशा दर्पेण च बलेन च |

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः || १-१७-२५
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः |

विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् || १-१७-२६
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् |

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् || १-१७-२७
नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् |

गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने || १-१७-२८
नर्दमानाश्च नादेन पातयेयुर्विहंगमान् |

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् || १-१७-२९
शतं शतसहस्राणि यूथपानां महात्मनाम् |

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः || १-१७-३०
बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् |

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः || १-१७-३१
अन्ये नानाविधान् शैलान् काननानि च भेजिरे |

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् || १-१७-३२
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः |
नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् || १-१७-३३

ते तार्क्ष्यबलसंपन्नाः सर्वे युद्धविशारदाः |
विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् || १-१७-३४

महाबलो महाबाहुर्वाली विपुलविक्रमः |
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् || १-१७-३५

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा |
कीर्णा विविधसंस्थानैर्नानाव्यंजनलक्षणैः || १-१७-३६

तैर्मेघबृन्दाचलकूटसंनिभैः
महाबलैर्वानरयूथपाधिपैः |
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः || १-१७-३७

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तदशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment