Bala Kanda – Sarga 13 (Valmiki Ramayana)

Ashvamedha begun; sage Vashista’s arrangements

Valmiki Ramayana – kanda 1 – Sarga 13

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् |
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् || १-१३-१

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च |
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् || १-१३-२

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव |
यथा न विघ्नः क्रियते यज्ञांगेषु विधीयताम् || १-१३-३

भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् |
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः || १-१३-४

तथेति च स राजानमब्रवीत् द्विजसत्तमः |
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ||१-१३-५

ततोऽब्रवीत् द्विजान्वृद्धान् यज्ञकर्मसु निष्ठितान् |
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् || १-१३-६
कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि |
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् || १-१३-७
तथा शुचीन् शास्त्रविदः पुरुषान्सुबहुश्रुतान् |
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् || १-१३-८
इष्टका बहुसाहस्री शीघ्रमानीयतामिति |
औपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः || १-१३-९

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः |
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ||१-१३-१०

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः |
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् || १-१३-११

वाजिवारणशलाश्च तथा शय्यागृहाणि च |
भटानां महदावास वैदेशिकनिवासिनाम् || १-१३-१२

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः |
तथा पौरजनस्यापि जनस्य बहुशोभनम् || १-१३-१३

दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया |
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः || १-१३-१४
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि |

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा || १-१३-१५
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् |
ये स्युः संपूजिता सर्वे वसुभिर्भोजनेन च || १-१३-१६

यथा सर्वं सुविहितं न किंचित्परिहीयते |
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा || १-१३-१७

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् |
यथेष्टं तत्सुविहितं न किंचित्परिहीयते || १-१३-१८
यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते |

ततः सुमंत्रमाहूय वसिष्ठो वाक्यमब्रवीत् || १-१३-१९
निमंत्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः |
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः || १-१३-२०
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् |

मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् || १-१३-२१
तमानय महाभागं स्वयमेव सुसत्कृतम् |
पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते || १-१३-२२

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् |
सद् वृत्तं देवसंकाशं स्वयमेवानयस्व ह || १-१३-२३

तथा केकयराजानं वृद्धं परमधार्मिकम् |
श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय || १-१३-२४

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् |
वयस्यं राजसिंहस्य समानय यशस्विनम् || १-१३-२५

तथा कोसलराजानं भानुमंतं सुसत्कृतम् |
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् || १-१३-२६

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् |
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् |
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् || १-१३-२७

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह |
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले || १-१३-२८
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् |
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया || १-१३-२९

वसिष्ठवाक्यं तच्छ्रुत्वा सुमंत्रस्त्वरितस्तदा |
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् || १-१३-३०

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् |
सुमंत्रस्त्वरितो भूत्वा समानेतुं महीक्षितः || १-१३-३१

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये |
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् || १-१३-३२

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्मुनिरब्रवीत् |
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा || १-१३-३३
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः |

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः || १-१३-३४
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह |

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् || १-१३-३५
उपयाता नरव्याघ्र राजानस्तव शासनात् |
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः || १-१३-३६

यज्ञीयं च कृतं सर्वं पुरुषैः सुसमाहितैः |
निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् || १-१३-३७

सर्वकामैरुपहृतैरुपेतं वै समन्ततः |
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् || १-१३-३८

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः |
शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः || १-१३-३९

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः |
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा || १-१३-४०

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि |
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् || १-१३-४१

इति श्री वाल्मिकिरामायणे बालकाण्डे त्रयोदशः सर्गः

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment