Vasishta instructs messengers to call Bharata and Satrughna
Valmiki Ramayana – Kanda 2 – Sarga 68
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह |
मित्र अमात्य गणान् सर्वान् ब्राह्मणांस् तान् इदम् वचः || २-६८-१
यद् असौ मातुल कुले पुरे राज गृहे सुखी |
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः || २-६८-२
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः |
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् || २-६८-३
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् |
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् || २-६८-४
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन |
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः || २-६८-५
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः |
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम || २-६८-६
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः |
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया || २-६८-७
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् |
भवन्तः शंसिषुर् गत्वा राघवाणाम् इमम् क्षयम् || २-६८-८
कौशेयानि च वस्त्राणि भूषणानि वराणि च |
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत || २-६८-९
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् |
केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान् || २-६८-१०
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् |
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः || २-६८-११
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति |
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् || २-६८-१२
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः |
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् || २-६८-१३
सरांसि च सुपूर्णानि नदीश्च विमलोदकाः |
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् || २-६८-१४
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् |
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् || २-६८-१५
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् |
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् || २-६८-१६
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् |
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् || २-६८-१७
अवेक्स्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् |
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् || २-६८-१८
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् |
नदीर्वापीस्तटाकानि पल्वलानि सरांसि च || २-६८-१९
पस्यन्तो विविधांश्चापि सिमहव्याग्रमृगद्विपान् |
ययुः पथातिमहता शासनम् भर्तुरीप्सवः || २-६८-२०
ते श्रान्त वाहना दूता विकृष्टेन सता पथा |
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा || २-६८-२१
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् |
भर्तुः च वंशस्य परिग्रह अर्थम् |
अहेडमानाः त्वरया स्म दूता |
रात्र्याम् तु ते तत् पुरम् एव याताः || २-६८-२२
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टषष्टितमः सर्गः ||