Ayodhya Kanda – Sarga 67 (Valmiki Ramayana)

Brahmins urge Vasishta to select a youth to be the king

Valmiki Ramayana – Kanda 2 – Sarga 67

आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला |
आयोध्यायामतितता सा व्यतीयाय शर्वरी || २-६७-१

व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः |
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः || २-६७-२

मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः |
कात्ययनो गौतमः च जाबालिः च महा यशाः || २-६७-३
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् |
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् || २-६७-४

अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा |
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे || २-६७-५

स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः |
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह || २-६७-६

उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ |
पुरे राज गृहे रम्ये मातामह निवेशने || २-६७-७

इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् |
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् || २-६७-८

न अराजले जन पदे विद्युन् माली महा स्वनः |
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा || २-६७-९

न अराजके जन पदे बीज मुष्टिः प्रकीर्यते |
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे || २-६७-१०

अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके |
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके || २-६७-११

न अराजके जन पदे कारयन्ति सभाम् नराः |
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च || २-६७-१२

न अराजके जन पदे यज्ञ शीला द्विजातयः |
सत्राणि अन्वासते दान्ता ब्राह्मणाः संशित व्रताः || २-६७-१३

न अराजके जनपदे महायज्ञेषु यज्वनः |
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः || २-६७-१४

न अराजके जन पदे प्रभूत नट नर्तकाः |
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः || २-६७-१५

न अरजके जन पदे सिद्ध अर्था व्यवहारिणः |
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः || २-६७-१६

न अराजके जनपदे उद्यानानि समागताः |
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः || २-६७-१७

न अराजके जन पदे वाहनैः शीघ्र गामिभिः |
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः || २-६७-१८

न अराकजे जन पदे धनवन्तः सुरक्षिताः |
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः || २-६७-१९

न अराजके जनपदे बद्दघण्टा विषाणीनः |
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः || २-६७-२०

न अराजके जनपदे शरान् सम्ततमस्यताम् |
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने || २-६७-२१

न अराजके जन पदे वणिजो दूर गामिनः |
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः || २-६७-२२

न अराजके जन पदे चरति एक चरः वशी |
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः || २-६७-२३

न अराजके जन पदे योग क्षेमम् प्रवर्तते |
न च अपि अराजके सेना शत्रून् विषहते युधि || २-६७-२४

न अराजके जनपदे हृष्टैः परमवाजिभिः |
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः || २-६७-२५

न अराजके जनपदे नराः शास्त्रविशारदाः |
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च || २-६७-२६

न अराजके जनपदे माल्यमोदकदक्षिणाः |
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः || २-६७-२७

न अराजके जनपदे चन्दनागुरुरूषिताः |
राजपुत्रा विराजन्ते वसन्त इव शाखिनः || २-६७-२८

यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् |
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् || २-६७-२९

ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः |
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः || २-६७-३०

न अराजके जन पदे स्वकम् भवति कस्यचित् |
मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् || २-६७-३१

येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न संशयाः |
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः || २-६७-३२

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते |
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः || २-६७-३३

राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् |
राजा माता पिता चैव राजा हितकरो नृणाम् || २-६७-३४

यमो वैश्रवणः शक्रो वरुणश्च महाबलः |
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः || २-६७-३५

अहो तमैव इदम् स्यान् न प्रज्ञायेत किंचन |
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी || २-६७-३६

जीवति अपि महा राजे तव एव वचनम् वयम् |
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः || २-६७-३७

स नः समीक्ष्य द्विज वर्य वृत्तम् |
नृपम् विना राज्यम् अरण्य भूतम् |
कुमारम् इक्ष्वाकु सुतम् वदान्यम् |
त्वम् एव राजानम् इह अभिषिन्चय || २-६७-३८

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तषष्टितमः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment