Ayodhya Kanda – Sarga 66 (Valmiki Ramayana)

Kausalya reproaches Kaikeyi

Valmiki Ramayana – Kanda 2 – Sarga 66

तम् अग्निम् इव संशान्तम् अम्बु हीनम् इव अर्णवम् |
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् || २-६६-१
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता |
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत || २-६६-२

सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् |
त्यक्त्वा राजानम् एक अग्रा नृशंसे दुष्ट चारिणि || २-६६-३

विहाय माम् गतः रामः भर्ता च स्वर् गतः मम |
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे || २-६६-४

भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः |
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः || २-६६-५

न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् |
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् || २-६६-६

अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् |
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा || २-६६-७

स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः |
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः || २-६६-८

विदेह राजस्य सुता तहा सीता तपस्विनी |
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति || २-६६-९

नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् |
निशम्य नूनम् संस्त्रस्ता राघवम् संश्रयिष्यति || २-६६-१०

वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् |
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् || २-६६-११

साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता |
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् || २-६६-१२

ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् |
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः || २-६६-१३

तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् |
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् || २-६६-१४

न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः |
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् || २-६६-१५

तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् |
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् || २-६६-१६

बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः |
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् || २-६६-१७

हा महाराज रामेण सततम् प्रियवादिना |
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः || २-६६-१८

कैकेय्या दुष्टभावाया राघवेण वियोजिताः |
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् || २-६६-१९

स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् |
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् || २-६६-२०

त्वया तेन च वीरेण विना व्यसनमोहिताः |
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः || २-६६-२१

यया तु राजा रामश्च लक्ष्मणश्च महाबलः |
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति || २-६६-२२

ता बाष्पेण च सम्वीताः शोकेन विपुलेन च |
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः || २-६६-२३

निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता |
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना || २-६६-२४

बाष्प पर्याकुल जना हाहा भूत कुल अन्गना |
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् || २-६६-२५

गत प्रभा द्यौर् इव भास्करम् विना |
व्यपेत नक्षत्र गणा इव शर्वरी |
निवृत्तचारः सहसा गतो रविः |
प्रवृत्तचारा राजनी ह्युपस्थिता || २-६६-२६

ऋते तु पुत्राद्दहनम् महीपते |
र्नरोचयन्ते सुहृदः समागताः |
इतीव तस्मिन् शयने न्यवेशय |
न्विचिन्त्य राजानमचिन्त्य दर्शनम् || २-६६-२७

गतप्रभा द्यौरिव भास्करम् विना |
व्यपेतनक्षत्रगणेव शर्वरी |
पुरी बभासे रहिता मह आत्मना |
न च अस्र कण्ठ आकुल मार्ग चत्वरा || २-६६-२८

नराः च नार्यः च समेत्य सम्घशो |
विगर्हमाणा भरतस्य मातरम् |
तदा नगर्याम् नर देव सम्क्षये |
बभूवुर् आर्ता न च शर्म लेभिरे || २-६६-२९

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे ष्ट्ष्ष्टितम सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment