Ayodhya Kanda – Sarga 64 (Valmiki Ramayana)

Dasaratha continued to narrate to Kausalya

Valmiki Ramayana – Kanda 2 – Sarga 64

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः |
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् || २-६४-१

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः |
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् || २-६४-२

ततः तम् घटम् आदय पूर्णम् परम वारिणा |
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः || २-६४-३

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ |
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ || २-६४-४
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ |
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् || २-६४-५

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः |
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः || २-६४-६

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत |
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय || २-६४-७

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया |
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् || २-६४-८

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया |
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना || २-६४-९

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् |
समासक्ताः त्वयि प्राणाः किंचिन् नौ न अभिभाषसे || २-६४-१०

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया |
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् || २-६४-११

मनसः कर्म चेष्टाभिर् अभिसंस्तभ्य वाग् बलम् |
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् || २-६४-१२

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः |
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् || २-६४-१३

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः |
जिघांसुः श्वा पदम् किंचिन् निपाने वा आगतम् गजम् || २-६४-१४

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः |
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया || २-६४-१५

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि |
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् || २-६४-१६

भगवन् शब्दम् आलक्ष्य मया गज जिघांसुना |
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः || २-६४-१७

ततस्तस्यैव वचनादुपेत्य परितप्यतः |
स मया सहसा बण उद्धृतो मर्मतस्तदा || २-६४-१८

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः |
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च || २-६४-१९

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया |
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः || २-६४-२०

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः |
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः || २-६४-२१

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः |
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् || २-६४-२२

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् |
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा || २-६४-२३

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः |
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् || २-६४-२४

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति |
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि || २-६४-२५

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि |
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् || २-६४-२६

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत |
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् || २-६४-२७
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् |
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् || २-६४-२८

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ |
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया || २-६४-२९

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ |
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् || २-६४-३०

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक |
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद || २-६४-३१

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक |
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद || २-६४-३२

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् |
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः || २-६४-३३

को माम् संध्याम् उपास्य एव स्नात्वा हुत हुत अशनः |
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् || २-६४-३४

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् |
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् || २-६४-३५

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् |
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् || २-६४-३६

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति |
श्वो मया सह गन्ता असि जनन्या च समेधितः || २-६४-३७

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने |
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् || २-६४-३८

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् |
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् || २-६४-३९

दातुमर्हति धर्मात्मा लोकपालो महायशाः |
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् || २-६४-४०

अपापो असि यथा पुत्र निहतः पाप कर्मणा |
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् || २-६४-४१

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः |
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज || २-६४-४२

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः |
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक || २-६४-४३

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या |
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च || २-६४-४४
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि |
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक || २-६४-४५

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् |
स तु यास्यति येन त्वम् निहतो मम बान्धवः || २-६४-४६

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् |
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया || २-६४-४७

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः |
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् || २-६४-४८

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः |
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् || २-६४-४९

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् |
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः || २-६४-५०

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता |
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः || २-६४-५१

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया |
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् || २-६४-५२

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा |
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् || २-६४-५३

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः |
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् || २-६४-५४

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् |
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि || २-६४-५५

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः |
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप || २-६४-५६

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति |
जीवितान्तकरो घोरो दातारमिव दक्षिणा || २-६४-५७

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु |
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् || २-६४-५८

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् |
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा || २-६४-५९

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः |
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा || २-६४-६०

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः |
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् || २-६४-६१

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु मांस्फृश |
इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः || २-६४-६२

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् |
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि || २-६४-६३

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः |
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः || २-६४-६४

यदि माम् संस्पृशेद् रामः सकृदद्य लभेत वा |
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः || २-६४-६५

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते |
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् || २-६४-६६

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये |
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् || २-६४-६७

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः |
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः || २-६४-६८

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् |
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः || २-६४-६९

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् |
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् || २-६४-७०

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च |
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् || २-६४-७१

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् |
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा || २-६४-७२

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे |
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् || २-६४-७३

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे |
क्षिणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा || २-६४-७४

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् |
संसादयति वेगेन यथा कूलम् नदी रयः || २-६४-७५

हा राघव महा बाहो हा मम आयास नाशन |
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत || २-६४-७६

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि |
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि || २-६४-७७

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ |
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् || २-६४-७८

यथा तु दीनम् कथयन् नर अधिपः |
प्रियस्य पुत्रस्य विवासन आतुरः |
गते अर्ध रात्रे भृश दुह्ख पीडितः |
तदा जहौ प्राणम् उदार दर्शनः || २-६४-७९

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुःषष्टितमः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment