Ayodhya Kanda – Sarga 63 (Valmiki Ramayana)

Dasaratha narrates his sin to Kausalya

Valmiki Ramayana – Kanda 2 – Sarga 63

प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः |
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत || २-६३-१

राम लक्ष्मणयोः चैव विवासात् वासव उपमम् |
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् || २-६३-२

सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः |
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः || २-६३-३

स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् |
अर्ध रात्रे दशरथः संस्मरन् दुष्कृतम् कृतम् || २-६३-४

स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः |
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् || २-६३-५

यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् |
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः || २-६३-६

गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् |
दोषम् वा यो न जानाति स बालैति ह उच्यते || २-६३-७

कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति |
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे || २-६३-८

अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति |
स शोचेत्फलवेळायाम् यथा किंशुकसेचकः || २-६३-९

सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् |
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः || २-६३-१०

लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता |
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् || २-६३-११

तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् |
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् || २-६३-१२

यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् |
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् || २-६३-१३

देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् |
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी || २-६३-१४

उपास्यहि रसान् भौमांस् तप्त्वा च जगद् अंशुभिः |
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् || २-६३-१५

उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः |
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः || २-६३-१६

क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः |
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे || २-६३-१७

पतितेन अम्भसा चन्नः पतमानेन च असकृत् |
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः || २-६३-१८

पाण्डुरारुणवर्णानि स्रोओतांसि विमलान्यपि |
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् || २-६३-१९

आकुलारुणतोयानि स्रोओतांसि विमलान्यपि |
उन्मार्गजलवाहीनि बभूवुर्जलदागमे || २-६३-२०

तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी |
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् || २-६३-२१

निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् |
अन्यम् वा श्वा पदम् कंचिज् जिघांसुर् अजित इन्द्रियः || २-६३-२२
तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः |

तत्राहम् सम्वृतम् वन्यम् हतवांस्तीरमागतम् || २-६३-२३
अन्यम् चापि मृगम् हिंस्रम् शब्दम् श्रुत्वाभु पागतम् |

अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः || २-६३-२४
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः |

ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् || २-६३-२५
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् |

अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् || २-६३-२६
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः |
हा हा इति पततः तोये बाणाभिहतमर्मणः || २-६३-२७

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी |
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि || २-६३-२८

प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः |
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया || २-६३-२९

ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः |
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते || २-६३-३०

जटा भार धरस्य एव वल्कल अजिन वाससः |
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया || २-६३-३१

एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् |
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् || २-६३-३२

नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः |
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे || २-६३-३३

तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया |
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति || २-६३-३४

वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः |
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना || २-६३-३५

तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः |
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि || २-६३-३६

तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु |
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः || २-६३-३७

तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः |
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् || २-६३-३८
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् |
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् || २-६३-३९

स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् |
इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा || || २-६३-४०

किम् तव अपकृतम् राजन् वने निवसता मया |
जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया || २-६३-४१

एकेन खलु बाणेन मर्मणि अभिहते मयि |
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे || २-६३-४२

तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ |
चिरम् आशा कृताम् तृष्णाम् कष्टाम् संधारयिष्यतः || २-६३-४३

न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा |
पिता यन् माम् न जानाति शयानम् पतितम् भुवि || २-६३-४४

जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः |
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् || २-६३-४५

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव |
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः || २-६३-४६

इयम् एक पदी राजन् यतः मे पितुर् आश्रमः |
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् || २-६३-४७

विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः |
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा || २-६३-४८

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति |
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे || २-६३-४९

दुःखितस्य च दीनस्य मम शोकातुरस्य च |
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा || २-६३-५०

ताम्यमानः स माम् दुःखादुवाच परमार्तवत् |
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् || २-६३-५१

संस्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् |
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् || २-६३-५२

न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा |
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप || २-६३-५३

इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः |
विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले || २-६३-५४
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् |
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् || २-६३-५५

जल आर्द्र गात्रम् तु विलप्य कृच्चान् |
मर्म व्रणम् सम्ततम् उच्चसन्तम् |
ततः सरय्वाम् तम् अहम् शयानम् |
समीक्ष्य भद्रे सुभृशम् विषण्णः || २-६३-५६

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रिषष्टितमः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment