Ayodhya Kanda – Sarga 58 (Valmiki Ramayana)

Sumantra delivers the messages of Rama

Valmiki Ramayana – Kanda 2 – Sarga 58

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः |
थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् || २-५८-१

तदा सूतो महाराज कृताञ्जलिरुपस्थितः|
राममेव अनुशोचन्तं दुःखशोकसमन्वितम् || २-५८-२
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् |
विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् || २-५८-३

राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् |
अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् || २-५८-४

क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः |
सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः || २-५८-५

दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः |
भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् || २-५८-६

यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्ज़्जराः |
स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः || २-५८-७

व्याळैः मृगैः आचरितम् कृष्ण सर्प निषेवितम् |
कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ || २-५८-८

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया |
राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ || २-५८-९

सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ |
वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् || २-५८-१०

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः |
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली || २-५८-११

आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय |
जीविष्याम्यहमेतेन ययातिरिव साधुषु || २-५८-१२

इति सूतः नर इन्द्रेण चोदितः सज्जमानया |
उवाच वाचा राजानम् स बाष्प परिर्बद्धया || २-५८-१३

अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् |
अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च || २-५८-१४

सूत मद्वचनात् तस्य तातस्य विदित आत्मनः |
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः || २-५८-१५

सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया |
आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् || २-५८-१६

माता च मम कौसल्या कुशलम् च अभिवादनम् |
अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः || २-५८-१७

धर्मनित्या यथाकालमग्न्यगारपरा भव |
देवि देवस्य पादौ च देववत् परिपालय || २-५८-१८

अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु |
अनु राजान मार्याम् च कैकेयीमम्ब कारय || २-५८-१९

कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् |
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर || २-५८-२०

भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च |
सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु || २-५८-२१

वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः |
पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय || २-५८-२२

अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः |
कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् || २-५८-२३

अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् |
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी || २-५८-२४

इति एवम् माम् महाराज बृवन्न् एव महा यशाः |
रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् || २-५८-२५

लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् |
केन अयम् अपराधेन राज पुत्रः विवासितः || २-५८-२६

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् |
कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः || २-५८-२७

यदि प्रव्राजितः रामः लोभ कारण कारितम् |
वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् || २-५८-२८

इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् |
रामस्य तु परित्यागे न हेतुम् उपलक्षये || २-५८-२९

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् |
जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् || २-५८-३०

अहम् तावन् महा राजे पितृत्वम् न उपलक्षये |
भ्राता भर्ता च बन्धुः च पिता च मम राघवः || २-५८-३१

सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् |
सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा || २-५८-३२

सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् |
सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि || २-५८-३३

जानकी तु महा राज निःश्वसन्ती तपस्विनी |
भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता || २-५८-३४

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी |
तेन दुह्खेन रुदती न एव माम् किंचित् अब्रवीत् || २-५८-३५

उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता |
मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा || २-५८-३६

तथैव रामः अश्रु मुखः कृत अन्जलिः |
स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः |
तथैव सीता रुदती तपस्विनी |
निरीक्षते राज रथम् तथैव माम् || २-५८-३७

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment