Ayodhya Kanda – Sarga 55 (Valmiki Ramayana)

Sage Bharadwaja informs the route of Chitrakuta

Valmiki Ramayana – Kanda 2 – Sarga 55

उषित्वा रजनीम् तत्र राजपुत्रावरिंदमौ |
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति || २-५५-१

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह |
प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् || २-५५-२

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः |
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् || २-५५-३

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ |
काळिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् || २-५५-४

अथासाद्य तु काळिन्न्धीम् शीघ्रस्रोतसमापगाम् |
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ || २-५५-५
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीम् नदीम् |

ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् || २-५५-६
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् |
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः || २-५५-७

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा |
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् || २-५५-८
पलाशबदरीमिश्रम् रम्यम् वंशैश्च यामुनैः |

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया || २-५५-९
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः |

इति पन्थानमावेद्य महर्षः स न्यवर्तत || २-५५-१०
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः |

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् || २-५५-११
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते |

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ || २-५५-१२
सीतामेवाग्रतः कृत्वा काळिन्दीम् जग्मतुर्नदीम् |

अथा साद्य तु काळिन्दीम् शीघ्रस्रोतोवहाम् नदीम् || २-५५-१३
चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः

तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् || २-५५-१४
शुष्कैर्वंशैः समास्तीर्णमुळीरैश्च समावृतम् |

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् || २-५५-१५
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् |

तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् || २-५५-१६
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् |

पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च || २-५५-१७
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः |

आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ || २-५५-१८
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ |

काळिन्दीमध्यमायाता सीता त्वेनामवन्दत || २-५५-१९
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् |
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च || २-५५-२०
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् |

काळिन्दीमथ सीता तु याचमाना कृताञ्जलिः || २-५५-२१
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी |

ततः प्लवेनांशुमतीम् शीघ्रगामूर्मिमालिनीम् || २-५५-२२
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् |

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् || २-५५-२३
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् |

न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् || २-५५-२४
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् |
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् || २-५५-२५
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् |

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् || २-५५-२६
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् |

सीतामादाय गच्छ त्वमग्रतो भरतानुज || २-५५-२७
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर |

यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा || २-५५-२८
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः |

गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा || २-५५-२९
मातङ्गयोर्मद्यगता शुभा नागवधूरिव |

एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् || २-५५-३०
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला |

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् || २-५५-३१
सीतावचनसम्रब्द अनयामास लक्स्मणः |

विचित्रवालुकजलाम् हससारसनादिताम् || २-५५-३२
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् |

क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ || २-५५-३३
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने |

विहृत्य ते बर्हिणपूगनादिते |
शुभे वने वानरवारणायुते |
समम् नदीवप्रमुपेत्य सम्मतम् |
निवासमाजग्मु रदीनदर्शनाः || || २-५५-३४

|| इत्यार्षे श्रिमद्रामायणे आदिकाव्ये अयोध्यकान्दे पञ्चाशः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment