Ayodhya Kanda – Sarga 5 (Valmiki Ramayana)

Festivities in Ayodhya

Valmiki Ramayana – Kanda 2 – Sarga 5

सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने |
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् || २-५-१

गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन |
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् || २-५-२

तथेति च स राजानमुक्त्वा वेदविदां वरः |
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् || २-५-३
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः |
ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः || २-५-४

स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् |
तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः || २-५-५

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः |
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् || २-५-६

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः |
ततोऽवतारयामास परिगृह्य रथात्स्वयम् || २-५-७

सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च |
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः || २-५-८

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि |
उपवासं भवानद्य करोतु सह सीतया || २-५-९

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः |
पिता दशरथः प्रीत्या ययातिं नहुषो यथा || २-५-१०

इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् |
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः || २-५-११

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः |
अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् || २-५-१२

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः |
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः || २-५-१३

हृष्टनारीनरयुतं रामवेश्म तदा बबौ |
यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः || २-५-१४

स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् |
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् || २-५-१५

बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः |
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः || २-५-१६

जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा |
बभूव राजमार्गस्य सागरस्येव निस्वनः || २-५-१७

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी |
आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा || २-५-१८

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः |
रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः | २-५-१९

प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् |
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् || २-५-२०

एवं तं जनसंबाधं राजमार्गं पुरोहितः |
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ || २-५-२१

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः |
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः || २-५-२२

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः |
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् || २-५-२३

तेन चैव तदा तुल्यं सहासीनाः सभासदः |
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् || २-५-२४

गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् |
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव || २-५-२५

तमग्र्यवेष्प्रमदाजनाकुलं |
महेन्द्रवेश्मप्रतिमं निवेशनम् |
विदीपयंश्चारु विवेश पार्थिवः |
शशीव तारागणसंकुलं नभः || २-५-२६

|| इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे पन्चम सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment