The people of Ayodhya begin to rebuke themselves
Valmiki Ramayana – Kanda 2 – Sarga 47
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना |
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः || २-४७-१
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः |
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः || २-४७-२
ते विषादार्तवदना रहितास्तेन धिमता |
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः || २-४७-३
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः |
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् || २-४७-४
कथम् नाम महाबाहुः स तथाऽवितथक्रियः |
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः || २-४७-५
यो नः सदा पालयति पिता पुत्रानिवौरसान् |
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः || २-४७-६
इहैव निधनम् यामो महाप्रस्थानमेव वा |
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः || २-४७-७
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च |
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् || २-४७-८
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद |
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् || २-४७-९
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना |
भविष्यति निरानन्दा सस्त्रीबालवयोधिका || २-४७-१०
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना |
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् || २-४७-११
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः |
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः || २-४७-१२
ततः मार्ग अनुसारेण गत्वा किंचित् क्षणम् पुनः
मार्ग नाशात् विषादेन महता समभिप्लुतः || २-४७-१३
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः |
किम् इदम् किम् करिष्यामः दैवेन उपहताइति || २-४७-१४
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः |
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् || २-४७-१५
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः |
आवर्तयन्त त्ऽश्रूणि नयनैः शोकपीडितैः || २-४७-१६
एषा रामेण नगरी रहिता नातिशोभते |
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा || २-४७-१७
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् |
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः || २-४७-१८
ते तानि वेश्मानि महाधनानि |
दुःखेन दुःखोपहता विशन्तः |
नैव प्रजज्ञुः स्वजनम् जनम् वा |
निरीक्षमाणाः प्रविणष्टहर्षाः || २-४७-१९
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 47 (Valmiki Ramayana)”
Kingbetting, the name sounds promising! Need a place where I can feel like a true high-roller, hope it’s good! Check it out dudes: kingbetting
Trying to get into 747 Live? The sign in process is pretty straightforward. Best of luck! 747 live sign in
Yo, check out ae48888, seen some people talking about it being great. Worth checking if you’re looking for somewhere new. ae48888