Dasaratha’s Premonition
Valmiki Ramayana – Kanda 2 – Sarga 4
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः |
मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् || २-४-१
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः |
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः || २-४-२
अथान्तर्गृहमासाद्य राजा दशरथस्तदा |
सूतमामन्त्रयामास रामं पुनरिहानय || २-४-३
प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ |
रामस्य भवनं शीघ्रं राममानयितुं पुनः || २-४-४
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः |
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् || २-४-५
प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् |
यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः || २-४-६
तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति |
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा || २-४-७
इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः |
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् || २-४-८
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः |
प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् || २-४-९
प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः |
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः || २-४-१०
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः |
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् || २-४-११
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः |
अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः || २-४-१२
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि |
दत्तमिष्टमधीतं च मया पुरुषसत्तम || २-४-१३
अनुभूतानि चेष्टानि मया वीर सुखान्यपि |
देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः || २-४-१४
न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् |
अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ||२-४-१५
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् |
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक || २-४-१६
अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् |
सनिर्घाता दिवोल्का च परतीह महास्वना || २-४-१७
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः |
आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः || २-४-१८
प्रायेण हि निमित्तानामीदृशानां समुद्भवे |
राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति || २-४-१९
तद्यावदेव मे चेतो न विमुञ्चति राघव |
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः || २-४-२०
अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू |
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः || २-४-२१
ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् |
श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप || २-४-२२
तस्मात्त्वयादप्रभृति निशेयं नियतात्मना |
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना || २-४-२३
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः |
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि || २-४-२४
विप्रोषितश्च भरतो यावदेव पुरादितः |
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम || २-४-२५
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः |
ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः || २-४-२६
किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः |
सतां च धर्मनित्यानां कृतशोभि च राघव || २-४-२७
इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने |
व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् || २-४-२८
प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने |
तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ || २-४-२९
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् |
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् || २-४-३०
प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा |
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् || २-४-३१
तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा |
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ||२-४-३२
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् |
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् || २-४-३३
तथा सनियमामेव सोऽभिगम्याभिवाद्य च |
उवाच वचनं रामो हर्ष्यंस्तामिदं तदा || २-४-३४
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि |
भविता श्वोऽभिषेको मे यथा मि शासनं पितुः || २-४-३५
सीतया प्युपवस्तव्या रजनीयं मया सह |
एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता || २-४-३६
यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने |
तानि मे मङ्गळान्यद्य वैदेह्याश्चैव कारय || २-४-३७
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् |
हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत || २-४-३८
वत्स राम चिरं जीव हतास्ते परिपन्थिनः |
ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय || २-४-३९
कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक |
येन त्वया दशरथो गुणैराराधितः पिता || २-४-४०
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे |
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति || २-४-४१
इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् |
प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव || २-४-४२
लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् |
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता || २-४-४३
सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च |
जीवितं च हि राज्यं च त्वदर्थमभिकामये || २-४-४४
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च |
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् || २-४-४५
|| इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्य कान्दे चतुर्थः सर्गः ||
4 thoughts on “Ayodhya Kanda – Sarga 4 (Valmiki Ramayana)”
Alright alright alright! 5sbetwin surprised me, honestly. Good selection and the site’s easy to navigate. Give it a whirl, why not? Here’s the link: 5sbetwin
I jumped into Betarcocasino, and it was surprisingly good. A lot to offer, lots of ways to play, it’s slick! If you’re new to the game, I think this place could reel you in for months!. Have fun at betarcocasino.
Tongitswar, bruh! Get ready to battle! All my friends play on this site, and it’s really fun! Jump in and show them how it’s done! tongitswar
Aight, phtaya1login… simple and quick, just how I like it! No BS, just straight fun! Give it a shot if you’re looking for no nonsense entertainment: phtaya1login