Ayodhya Kanda – Sarga 33 (Valmiki Ramayana)

Rama pays respects to his father at departure

Valmiki Ramayana – Kanda 2 – Sarga 33

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु |
जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ || २-३३-१

ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे |
माला दामभिर् आसक्ते सीतया समलम्कृते || २-३३-२

ततः प्रासाद हर्म्याणि विमान शिखराणि च |
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् || २-३३-३

न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः |
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् || २-३३-४

पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः |
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः || २-३३-५

यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् |
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः || २-३३-६

ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः |
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् || २-३३-७

या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि |
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः || २-३३-८

अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् |
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् || २-३३-९

अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते |
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति || २-३३-१०

निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् |
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् || २-३३-११

आनृशंस्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः |
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् || २-३३-१२

तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः |
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् || २-३३-१३

पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः |
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः || २-३३-१४

मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः |
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः || २-३३-१५

ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः |
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः || २-३३-१६

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च |
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् || २-३३-१७

समुद्धृत निधानानि परिध्वस्त अजिराणि च |
उपात्त धन धान्यानि हृत साराणि सर्वशः || २-३३-१८
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः |
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च || २-३३-१९
अपेतोदकधूमानि हीनसम्मार्जनानि च |
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च || २-३३-२०
दुष्कालेनेव भग्नानि भिभाजनवन्ति च |
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् || २-३३-२१

वनम् नगरम् एव अस्तु येन गच्चति राघवः |
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् || २-३३-२२

बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः |
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च || २-३३-२३
इति एवम् विविधा वाचो नाना जन समीरिताः |

तृणमांसफलादानाम् देशम् व्यालमृगद्विजम् || २-३३-२४
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः |
राघावेण वने सर्वे सह वत्स्याम निर्वृताः || २-३३-२५

इत्येवम् विविधा वाचो नानाजनसमीरिताः|
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् || २-३३-२६

स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् |
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः || २-३३-२७

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् |
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः || २-३३-२८

प्रतीक्षमाणो अभिजनम् तदा आर्तम् |
अनार्त रूपः प्रहसन्न् इव अथ|
जगाम रामः पितरम् दिदृक्षुः |
पितुर् निदेशम् विधिवच् चिकीर्षुः || २-३३-२९

तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा |
रामः गमिष्यन् वनम् आर्त रूपम् |
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् |
पितुर् महात्मा प्रतिहारण अर्थम् || २-३३-३०

पितुर्निदेशेन तु धर्मवत्सलो |
वन प्रवेशे कृत बुद्धि निश्चयः |
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् |
निवेदयस्व आगमनम् नृपाय मे || २-३३-३१

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे त्रयः त्रिंशः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment