Ayodhya Kanda – Sarga 27 (Valmiki Ramayana)

Seetha’s wish to go to forest along with Rama

Valmiki Ramayana – Kanda 2 – Sarga 27

एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी |
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् || २-२७-१

किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् |
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज || २-२७-२

आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा |
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते || २-२७-३

भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ |
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि || २-२७-४

न पिता न आत्मजो न आत्मा न माता न सखी जनः |
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा || २-२७-५

यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव |
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् || २-२७-६

ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् |
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते || २-२७-७

प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा |
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते || २-२७-८

अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् |
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया || २-२७-९

अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् |
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् || २-२७-१०

सुखम् वने निवत्स्यामि यथा एव भवने पितुः |
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् || २-२७-११

शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी |
सह रंस्ये त्वया वीर वनेषु मधु गन्धिषु || २-२७-१२

त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् |
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद || २-२७-१३

सह त्वया गमिश्यामि वसमद्य न संशयः |
नाहम् शक्या महाभाग निवर्तयितु मुद्यता || २-२७१४

फल मूल अशना नित्यम् भविष्यामि न संशयः |
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया || २-२७-१५

इच्चामि सरितः शैलान् पल्वलानि वनानि च |
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता || २-२७-१६

हंस कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः |
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता || २-२७-१७

अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता |
सह त्वया विशाल अक्ष रंस्ये परम नन्दिनी || २-२७-१८

एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह |
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः || २-२७-१९

स्वर्गे अपि च विना वासो भविता यदि राघव |
त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये || २-२७-२०

अहम् गमिष्यामि वनम् सुदुर्गमम् |
मृग आयुतम् वानर वारणैः युतम् |
वने निवत्स्यामि यथा पितुर् गृहे |
तव एव पादाव् उपगृह्य सम्मता || २-२७-२१

अनन्य भावाम् अनुरक्त चेतसम् |
त्वया वियुक्ताम् मरणाय निश्चिताम् |
नयस्व माम् साधु कुरुष्व याचनाम् |
न ते मया अतः गुरुता भविष्यति || २-२७-२२

तथा ब्रुवाणाम् अपि धर्म वत्सलो |
न च स्म सीताम् नृ वरः निनीषति |
उवाच च एनाम् बहु सम्निवर्तने |
वने निवासस्य च दुह्खिताम् प्रति || २-२७-२३

|| इति श्रिमद् रामयने अयोध्य कान्दे षत्विंसः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment