Rama obtains Kausalya’s permission
Valmiki Ramayana – Kanda 2 – Sarga 24
तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने |
कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् || २-२४-१
अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः |
मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् || २-२४-२
यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते |
कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् || २-२४-३
क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् |
गुणवान् दयितः राज्ञो राघवो यद् विवास्यते || २-२४-४
नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् |
लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि || २-२४-५
अयम् तु मामात्मभवस्तवादर्शनमारुतः |
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः || २-२४-६
चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः |
कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः || २-२४-७
त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् |
प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये || २-२४-८
कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति |
अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि || २-२४-९
तथा निगदितम् मात्रा तत् वाक्यम् पुरुष ऱ्षभः |
श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ||२-२४-१०
कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते |
भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति || २-२४-११
भर्तुः किल परित्यागो नृशंसः केवलम् स्त्रियाः |
स भवत्या न कर्तव्यो मनसा अपि विगर्हितः || २-२४-१२
यावज् जीवति काकुत्स्थः पिता मे जगती पतिः |
शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः || २-२४-१३
एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना |
तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् || २-२४-१४
एवम् उक्तः तु वचनम् रामः धर्मभ्ऱ्ताम् वरः |
भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् || २-२४-१५
मया चैव भवत्या च कर्तव्यम् वचनम् पितुः |
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः || २-२४-१६
इमानि तु महा अरण्ये विह्ऱ्त्य नव पन्च च |
वर्षाणि परम प्रीतः स्थास्यामि वचने तव || २-२४-१७
एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा |
उवाच परम आर्ता तु कौसल्या पुत्र वत्सला || २-२४-१८
आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् |
नय माम् अपि काकुत्स्थ वनम् वन्यम् म्ऱ्गीम् यथा || २-२४-१९
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया |
ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् || २-२४-२०
जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च |
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।।२-२४-२१
न ह्यनाथा वयं राज्ज्ञा लोकनाथेन धीम ता ।
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।।२-२४-२२
भवतीमनुवर्तेत स हिधर्मरतः सदा ।
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः || २-२४-२३
श्रमम् न अवाप्नुयात् किंचित् अप्रमत्ता तथा कुरु |
दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् || २-२४-२४
राज्ञो वृद्धस्य सततम् हितम् चर समाहिता |
व्रत उपवास निरता या नारी परम उत्तमा || २-२४-२५
भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् |
भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् || २-२४-२६
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् |
शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता || २-२४-२७
एष धर्मः पुरा द्ऱ्ष्टः लोके वेदे श्रुतः स्म्ऱ्तः |
अग्निकार्येषु च सदा सुमनोभिश्च देवताः || २-२४-२८
पूज्याः ते मत् क्ऱ्ते देवि ब्राह्मणाः चैव सुव्रताः |
एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी || २-२४-२९
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति |
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति || २-२४-३०
यदि धर्मभ्ऱ्ताम् श्रेष्ठो धारयिष्यति जीवितम् |
एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा || २-२४-३१
कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् |
गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक || २-२४-३२
विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः |
गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो || २-२४-३३
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा |
प्रत्यागते महाभागे कृतार्थे चरितव्रते || २-२४-३४
पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् |
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि || २-२४-३५
यस्त्वा संचोदयति मे वच आच्चिद्य राघव |
गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः || २-२४-३६
नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा |
अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः || २-२४-३७
यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् |
तथा हि रामम् वन वास निश्चितम् |
ददर्श देवी परमेण चेतसा |
उवाच रामम् शुभ लक्षणम् वचो|
बभूव च स्वस्त्ययन अभिकान्क्षिणी || २-२४-३८
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्विशःसर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 24 (Valmiki Ramayana)”
Alright, alright, F88 Game… seen it popping up everywhere. What’s the deal? Is it worth a shot or just another flash-in-the-pan thing? Enquiring minds wanna know! f88 game
Heard people mentioning vinchat lately. What’s the deal with it? Another messaging app? Anything special about it? I’m all ears! vinchat
Having trouble with Nesine giriş, is the site down? Need to check the scores ASAP! nesine giriş