Ayodhya Kanda – Sarga 17 (Valmiki Ramayana)

Rama’s arrival at royal court

Valmiki Ramayana – Kanda 2 – Sarga 17

स रमो रथमास्थाय सम्प्रहृष्टसुहृञनः |
पताकाध्वजसंपन्नं महार्हगुरुधूपितम् || २-१७-१
अपश्यन्नगरं श्रीमान् नानाजनसमाकुलम् |

स गृहैरभ्रसंकाशैः पांडुरैरुपशोभितम् || २-१७-२
राजमार्गं ययौ रामो मध्येनगरुधूपितम् |

चन्दनानाम् च मुख्यानामगुरूणाम् च संचयैः || २-१७-३
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च |
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि || २-१७-४
शोभमानसम्बाधं तं राजपथमुत्तमम् |
संवृतं विविधैः पुष्पैभ्रुक्ष्यैरुच्चावचैरपि || २-१७-५

ददर्श तं राजपथं दिवि देवपतिर्यथा |
दध्यक्षतहविर्लाजैर्धूपैरगुरुचंदनैः || २-१७-६
नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् |

आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् || २-१७-७
यथार्हं चापि सम्पूज्य सर्वानेव नारान् ययौं |

पितामहैराचरितं तथैव प्रपितामहैः || २-१७-८
अध्योपादाय तं मार्गमभिषित्तोऽनुपालय |

यथा स्म पोषिताः पित्रा यथा पूर्वैः पितामहैः ||२-१७-९
ततः सुखतरं सर्वे रामे वत्स्याम राजनि |

अलमद्य हि भुक्तेन परमार्थैरलं च नः || २-१७-१०
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् |

ततो हि न प्रियतरं नान्यत्किंचिद्भविश्यति || २-१७-११
यथाभिषेको रामस्य राज्येनामिततेजसः |

एताश्चान्याश्च शुहृदामुदासीनः सुभाः कथाः || २-१७-१२
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् |

नहि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् || २-१७-१३
नरः रोशवनोत्यपाक्रष्टुमातिक्रान्तोऽपि राघवे |

यश्च रामं न पश्येत्तु यं च रामो न पश्यति || २-१७-१४
निन्दतः सर्वलोकेषु स्वात्माप्येनं विगर्हते |

सर्वेषाम् स हि धर्मात्मा वर्णानां कुरुते दयाम् || २-१७-१५
चतुर्णां हि वयह्स्थानाम् तेन ते तमनुव्रता |

चत्पुष्पथान् देवपथांश्चैत्यांश्चायतनानि च || २-१७-१६
प्रदक्षिणं परिहरन् जगाम नृपतेस्सुतः |

स राजकुलमासाद्य मेघसंघोपमैः शुभैः || २-१७-१७
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः |
आवारयद्भिर्गनं विमानैरिव पाण्डुरैः || २-१७-१८
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः |
तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् || २-१७-१९
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् |

स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः || २-१७-२०
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः |

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः || २-१७-२१
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरुमत्यगात् |

तस्मिन् प्रविष्टे पितुर्न्तिकं तदा |
जनः स सर्वो मुदितो नृपात्मजे |
प्रतीक्षते तस्य पुनः स्म निर्गमम् |
यथोदयं चन्द्रमसः सरित्पतिः || २-१७-२२

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

Leave a Comment