The night passes
Valmiki Ramayana – Kanda 2 – Sarga 14
पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि |
विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् || २-१४-१
पापम् क्ऱ्त्वा इव किम् इदम् मम संश्रुत्य संश्रवम् |
शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि || २-१४-२
आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः |
सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ||२-१४-३
संश्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः |
प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् || २-१४-४
तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे |
याचमाने स्वके नेत्रेउद्ध्ऱ्त्य अविमना ददौ || २-१४-५
सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः |
सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते || २-१४-६
स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः|
सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् || २-१४-७
सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः |
सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम || २-१४-८
धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् |
प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् || २-१४-९
समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि |
अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् || २-१४-१०
एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया |
न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्ऱ्तम् यथा || २-१४-११
उद्भ्रान्त ह्ऱ्दयः च अपि विवर्ण वनदो अभवत् |
स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा|| २-१४-१२
विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः |
क्ऱ्च्च्रात् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत् || २-१४-१३
यः ते मन्त्र क्ऱ्तः पाणिर् अग्नौ पापे मया ध्ऱ्तः |
तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया || २-१४-१४
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति |
अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् || २-१४-१५
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः |
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् || २-१४-१६
त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया |
व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् || २-१४-१७
न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् |
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् || २-१४-१८
तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः |
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी || २-१४-१९
ततः पाप समाचारा कैकेयी पार्थिवम् पुनः |
उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ||२-१४-२०
किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् |
आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि || २-१४-२१
स्थाप्य राज्ये मम सुतम् क्ऱ्त्वा रामम् वने चरम् |
निह्सपत्नाम् च माम् क्ऱ्त्वा क्ऱ्त क्ऱ्त्यो भविष्यसि || २-१४-२२
स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः |
राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् || २-१४-२३
धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना |
ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् || २-१४-२४
ततः प्रभातां र्जनीमुदिते च दिवाकरे |
पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते || २-१४-२५
वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा |
उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् || २-१४-२६
सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् |
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् || २-१४-२७
संहृष्टमनुजोपेतां समृद्धविपणापणाम् |
महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् || २-१४-२८
चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् |
तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् || २-१४-२९
ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् |
पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् || २-१४-३०
तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् || २-१४-३१
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च |
स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् |
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् || २-१४-३२
तमुवाच महातेजाः सूतपुत्रं विशारदम् || २-१४-३३
वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् |
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः || २-१४-३४
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् |
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च || २-१४-३५
क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः |
अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः | २-१४-३६
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् |
वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् || २-१४-३७
श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः |
हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः || २-१४-३८
केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः |
सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः || २-१४-३९
सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः |
आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः || २-१४-४०
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह |
एते चान्ये च बहवो नीयमानाः प्रियम्वदाः || २-१४-४१
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः |
त्वरयस्व महाराजं यथा समुदितेऽहनि || २-१४-४२
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् |
इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः || २-१४-४३
स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् |
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् || २-१४-४४
न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः |
स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् || २-१४-४५
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे |
ततः सूतो यथाकालं पार्थिवस्य निवेशने || २-१४-४६
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् |
यथा नन्दति तेजस्वी सागरो भास्करोदये |
प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः || २-१४-४७
इन्द्रमस्यां तु वेळायामभितुष्टाव मातलिः || २-१४-४८
सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् |
वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् || २-१४-४९
ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् |
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् || २-१४-५०
बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् |
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गळः || २-१४-५१
विराजमानो वपुषा मेरोरिव दिवाकरः |
सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि || २-१४-५२
वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते |
गता भगवती रात्रिः कृतकृत्य मिदं तव || २-१४-५३
बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् |
उदतिष्ठत रामस्य समग्रमभिषेचन्म् || २-१४-५४
पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः |
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति || २-१४-५५
क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् |
यथा ह्यपालाः पशवो यथा सेना ह्यानायका || २-१४-५६
यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् |
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते || २-१४-५७
इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् |
अभ्यकीर्यत शोकेन भूय एव महीपतिः || २-१४-५८
ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति |
शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः || २-१४ ५९
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि |
सुमन्त्रः करुणम् श्रुत्वा द्ऱ्ष्ट्वा दीनम् च पार्थिवम् || २-१४-६०
प्रग्ऱ्हीत अन्जलिः किंचित् तस्मात् देशात् अपाक्रमन् |
यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः || २-१४-६१
तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह |
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः || २-१४-६२
प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् |
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् || २-१४-६३
राममानय भद्रं ते नात्र कार्या विचारणा |
स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च || २-१४-६४
निर्जगाम च संप्रीत्या त्वरितो राजशासनात् |
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया || २-१४-६५
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् |
इति सूतो मतिं कृत्वा हर्षेण महता वृतः || २-१४-६६
निर्जगाम महाबाहो राघवस्य दिदृक्षया |
सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् || २-१४-६७
निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः |
ततः पुरस्तत्सासा विनिर्गतो |
महीपतीन् द्वारगतो विलोकयन् |
ददर्श पौरान् विविधान्महाधना |
नुपस्थितान् द्वारमुपेत्य विष्ठतान् || २-१४-६८
|| इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ||
3 thoughts on “Ayodhya Kanda – Sarga 14 (Valmiki Ramayana)”
Welcome to s666.com, huh? Sounds intriguing. Gotta see what all the buzz is about. Maybe I’ll win big! Find out more at welcome to s666.com.
389win1… That’s the name, winnin’ is the game! Hoping to land some big ones tonight. Wish me luck! Try your hand at 389win1.
Gotta try my luck at win99z tonight. Hopefully, they live up to their name and I can rack up some wins! Check it out now: win99z.