Ayodhya Kanda – Sarga 69 (Valmiki Ramayana)

Bharata experiences a bad dream

Valmiki Ramayana – Kanda 2 – Sarga 69

याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् |
भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः || २-६९-१

व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् |
पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत || २-६९-२

तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः |
आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः || २-६९-३

वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे |
नाटकानि अपरे प्राहुर् हास्यानि विविधानि च || २-६९-४

स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः |
गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः || २-६९-५

तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् |
सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे || २-६९-६

एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह |
शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् || २-६९-७

स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् |
पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे || २-६९-८

प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे |
पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः || २-६९-९

ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः |
तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत || २-६९-१०

स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि |
सहसा च अपि संशन्तम् ज्वलितम् जात वेदसम् || २-६९-११
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् |
सहसा चापि संशान्तम् ज्वलितम् जातवेदसम् || २-६९-१२
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् |
अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् || २-६९-१३

पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् |
प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः || २-६९-१४

त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः |
रथेन खर युक्तेन प्रयातः दक्षिणा मुखः || २-६९-१५

प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी |
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना || २-६९-१६

एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् |
अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति || २-६९-१७

नरः यानेन यः स्वप्ने खर युक्तेन याति हि |
अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते || २-६९-१८

एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये |
शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः || २-६९-१९

न पश्यामि भयस्थानम् भयम् चैवोपधारये |
भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम || २-६९-२०
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् |

इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् |
अनेक रूपाम् अवितर्किताम् पुरा |
भयम् महत् तद्द् हृदयान् न याति मे |
विचिन्त्य राजानम् अचिन्त्य दर्शनम् || २-६९-२१

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ||

आप अपना हर तरह का फीडबैक हमें जरूर साझा करें, तब चाहे वह सकारात्मक हो या नकारात्मक हो

3 thoughts on “Ayodhya Kanda – Sarga 69 (Valmiki Ramayana)”

  1. 666d? Heard it’s the place to be if you’re looking for some quick thrills. Gonna check it out and see if the rumors are true. Wish me luck! Gotta try your luck on 666d!

    Reply

Leave a Comment