King Dasaratha loses consciousness
Valmiki Ramayana – Kanda 2 – Sarga 62
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया |
श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः || २-६२-१
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः |
अथ दीर्घेण कालेन सम्ज्ञामाप परतपः || २-६२-२
स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् |
कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् || २-६२-३
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् |
यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना || २-६२-४
अमनाः तेन शोकेन राम शोकेन च प्रभुः |
द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो || २-६२-५
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः |
वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः || २-६२-६
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः |
वत्सला च आनृशंसा च त्वम् हि नित्यम् परेष्व् अपि || २-६२-७
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा |
धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् || २-६२-८
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर |
न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् || २-६२-९
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् |
कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् || २-६२-१०
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् |
सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः || २-६२-११
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते |
याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया || २-६२-१२
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता |
उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते || २-६२-१३
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् |
पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् || २-६२-१४
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् |
शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः || २-६२-१५
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः |
सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते || २-६२-१६
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसंशयाः |
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः || २-६२-१७
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते |
यः शोक हत हर्षायाः पन्च वर्ष उपमः मम || २-६२-१८
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते |
अदीनाम् इव वेगेन समुद्र सलिलम् महत् || २-६२-१९
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः |
मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत || २-६२-२०
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः |
शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् || २-६२-२१
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्विषष्टितमः सर्गः ||