Kausalya rebukes Dasaratha for his evil act
Valmiki Ramayana – Kanda 2 – Sarga 61
वनम् गते धर्म परे रामे रमयताम् वरे |
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् || २-६१-१
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः |
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः || २-६१-२
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया |
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः || २-६१-३
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता |
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते || २-६१-४
भुक्त्वा अशनम् विशाल अक्षी सूप दंश अन्वितम् शुभम् |
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते || २-६१-५
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता |
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् || २-६१-६
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः |
भुजम् परिघ सम्काशम् उपधाय महा बलः || २-६१-७
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् |
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् || २-६१-८
वज्र सारमयम् नूनम् हृदयम् मे न संशयः |
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा || २-६१-९
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः |
निरस्ता परिधावन्ति सुखार्हः कृपणा वने || २-६१-१०
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति |
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते || २-६१-११
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् |
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् || २-६१-१२
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः |
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः || २-६१-१३
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः |
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः || २-६१-१४
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते |
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमंस्यते || २-६१-१५
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति |
एवम् एव नर व्याघ्रः पर लीढम् न मंस्यते || २-६१-१६
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः |
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे || २-६१-१७
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव |
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् || २-६१-१८
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति |
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् || २-६१-१९
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे |
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् || २-६१-२०
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः |
युगान्त इव भूतानि सागरानपि निर्दहेत् || २-६१-२१
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः |
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा || २-६१-२२
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः |
यदि ते धर्म निरते त्वया पुत्रे विवासिते || २-६१-२३
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः |
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते || २-६१-२४
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः |
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया || २-६१-२५
हतम् त्वया राज्यम् इदम् सराष्ट्रम् |
हतः तथा आत्मा सह मन्त्रिभिः च |
हता सपुत्रा अस्मि हताः च पौराः |
सुतः च भार्या च तव प्रहृष्टौ || २-६१-२६
इमाम् गिरम् दारुण शब्द संश्रिताम् |
निशम्य राजा अपि मुमोह दुह्खितः |
ततः स शोकम् प्रविवेश पार्थिवः |
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् || २-६१-२७
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकषष्टितमः सर्गः ||