Ayodhya Kanda – Sarga 52 (Valmiki Ramayana)

Guha gets a boat ready

Valmiki Ramayana – Kanda 2 – Sarga 52

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः |
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् || २-५२-१

भास्कर उदय कालो अयम् गता भगवती निशा |
असौ सुकृष्णो विहगः कोकिलः तात कूजति || २-५२-२

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने |
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् || २-५२-३

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः |
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः || २-५२-४

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च |
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् || २-५२-५

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् |
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर || २-५२-६

तम् निशम्य समादेशम् गुहामात्यगणो महान् |
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् || २-५२-७

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् |
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते || २-५२-८

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् |
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! || २-५२-९

अथोवाच महातेजा रामो गुहमिदम् वचः |
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति || २-५२-१०

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ |
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ || २-५२-११

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् |
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् || २-५२-१२

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् |
स्पृशन् करेणोत्तमदक्षिणेन |
सुमन्त्र शीघ्रम् पुनरेव याहि |
राज्ञः सकाशे भवचाप्रमत्तः || २-५२-१३

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम |
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् || २-५२-१४

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः |
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् || २-५२-१५

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् |
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने || २-५२-१६

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः |
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् || २-५२-१७

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् |
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकांस् तु जयन्न् इव || २-५२-१८

वयम् खलु हता राम ये तया अपि उपवन्चिताः |
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः || २-५२-१९

इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा |
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् || २-५२-२०

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् |
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् || २-५२-२१

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये |
यथा दशरथो राजा माम् न शोचेत् तथा कुरु || २-५२-२२

शोक उपहत चेताः च वृद्धः च जगती पतिः |
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते || २-५२-२३

यद् यद् आज्ञापयेत् किंचित् स महात्मा मही पतिः |
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया || २-५२-२४

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः |
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते || २-५२-२५

यद्यथा स महा राजो न अलीकम् अधिगच्चति |
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा || २-५२-२६

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् |
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः || २-५२-२७

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली |
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)|| २-५२-२८

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः |
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् || २-५२-२९

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे |
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः || २-५२-३०
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् |
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च || २-५२-३१

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय |
आगतः च अपि भरतः स्थाप्यो नृप मते पदे || २-५२-३२

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च |
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति || २-५२-३३

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे |
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः || २-५२-३४

यथा च तव कैकेयी सुमित्रा च अविशेषतः |
तथैव देवी कौसल्या मम माता विशेषतः || २-५२-३५

तातस्य प्रियकामेन यौवराज्यमपेक्षता |
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् || २-५२-३६

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः |
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् || २-५२-३७

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः |
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि || २-५२-३८

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् |
तव तात वियोगेन पुत्र शोक आकुलाम् इव || २-५२-३९

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः |
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी || २-५२-४०

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् |
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे || २-५२-४१

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् |
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः || २-५२-४२

दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने |
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् || २-५२-४३

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने |
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः || २-५२-४४

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया |
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति || २-५२-४५

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् |
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः || २-५२-४६

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः |
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः || २-५२-४७

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ |
वनवासानुयानाय मामनुज्ञातुमर्हसि || २-५२-४८

यदि मे याचमानस्य त्यागम् एव करिष्यसि |
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया || २-५२-४९

भविष्यन्ति वने यानि तपो विघ्न कराणि ते |
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव || २-५२-५०

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् |
आशंसे त्वत् कृतेन अहम् वन वास कृतम् सुखम् || २-५२-५१

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः |
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः || २-५२-५२

इमे चापि हया वीर यदि ते वनवासिनः |
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् || २-५२-५३

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् |
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् || २-५२-५४

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना |
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा || २-५२-५५

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः |
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः || २-५२-५६

चतुर् दश हि वर्षाणि सहितस्य त्वया वने |
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा || २-५२-५७

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि |
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि || २-५२-५८

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः |
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् || २-५२-५९

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल |
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः || २-५२-६०

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी |
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः || २-५२-६१

परितुष्टा हि सा देवि वन वासम् गते मयि |
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् || २-५२-६२

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी |
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् || २-५२-६३

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज |
संदिष्टः च असि या अनर्थांस् तांस् तान् ब्रूयाः तथा तथा || २-५२-६४

इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः |
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् || २-५२-६५

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने |
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः || २-५२-६६

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् |
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च || २-५२-६७
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय |

तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् || २-५२-६८
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः |

दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् || २-५२-६९
तौ तदा चीर वसनौ जटा मण्डल धारिणौ |
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ || २-५२-७०

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः |
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् || २-५२-७१

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा |
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् || २-५२-७२

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः |
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः || २-५२-७३

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः |
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् || २-५२-७४

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः |
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् || २-५२-७५

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् |
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवांस् ततः || २-५२-७६

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः |
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् || २-५२-७७

राघवोऽपि महातेजा नावमारुह्य ताम् ततः |
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः || २-५२-७८

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया |
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः || २-५२-७९

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् |
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् || २-५२-८०

ततः तैः चोदिता सा नौः कर्ण धार समाहिता |
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् || २-५२-८१

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता |
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् || २-५२-८२

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः |
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः || २-५२-८३
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने |
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति || २-५२-८४
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता |
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये || २-५२-८५

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे |
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे || २-५२-८६

सा त्वाम् देवि नमस्यामि प्रशंसामि च शोभने |
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते || २-५२-८७
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् |
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया || २-५२-८८

सुराघटसहस्रेण मांसभूतोदनेन च |
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता || २-५२-८९

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि |
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च || २-५२-९०

पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः |
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे || २-५२-९१

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता |
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् || २-५२-९२

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः |
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः || २-५२-९३

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् |
भव सम्रक्षणार्थाय सजने विजनेऽपि वा || २-५२-९४

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने |
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु || २-५२-९५

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् |
अन्योन्यस्य हि नो रक्षा कर्तव्या पुरुषर्षभ || २-५२-९६

न हि तावदतिक्रान्ता सुकरा काचन क्रिया |
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति || २-५२-९७

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् |
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति || २-५२-९८

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मणोऽग्रतः |
अनन्तरम् च सीताया राघवो रघुनन्दनः || २-५२-९९

गतम् तु गन्गा पर पारम् आशु |
रामम् सुमन्त्रः प्रततम् निरीक्ष्य |
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् |
र्मुमोच बाष्पम् व्यथितः तपस्वी || २-५२-१००

स लोकपालप्रतिमप्रभाववाम् |
स्तीर्त्वा महात्मा वरदो महानदीम् |
ततः समृद्धान् शुभसस्यमालिनः |
क्रमेण वत्सान् मुदितानुपागमत् || २-५२-१०१

तौ तत्र हत्वा चतुरः महा मृगान् |
वराहम् ऋश्यम् पृषतम् महा रुरुम् |
आदाय मेध्यम् त्वरितम् बुभुक्षितौ|
वासाय काले ययतुर् वनः पतिम् || २-५२-१०२

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे द्विपंचाशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।