Ayodhya Kanda – Sarga 50 (Valmiki Ramayana)

Rama bids farewell to his birth-place

Valmiki Ramayana – Kanda 2 – Sarga 50

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः |
अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् || २-५०-१

आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते |
दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च || २-५०-२

निवृत्तवनवासस्त्वामनृणो जगतीपतेः |
पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः || २-५०-३

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् |
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् || २-५०-४

अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः |
चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये || २-५०-५

तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् |
विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् || २-५०-६

तथा विलपताम् तेषामतृप्तानाम् च राघवः |
अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे || २-५०-७

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् |
अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् || २-५०-८
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् |
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् || २-५०-९
लक्षणीयान्न रेंद्राणाम् ब्रह्मघोषाभिनादितान् |
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत || २-५०-१०

मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् |
राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः || २-५०-११

तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् |
ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् || २-५०-१२

आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् |
कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् || २-५०-१३

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् |
नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् || २-५०-१४

देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् |
देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् || २-५०-१५

जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् |
क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् || २-५०-१६

क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् |
क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् || २-५०-१७

देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् |
क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् || २-५०-१८

हंस सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् |
सदामदैश्च विहगैरभिसम्नादिताम् तराम् || २-५०-१९

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् |
क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् || २-५०-२०

क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् |
नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् || २-५०-२१

व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् |
दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः || २-५०-२२
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् |

प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः || २-५०-२३
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा |
शिंशुमरैः च नक्रैः च भुजम्गैः च निषेविताम् || २-५०-२४

विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् |
ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा || २-५०-२५
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् |
आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति || २-५०-२६

ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः |
सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे || २-५०-२७

अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् |
सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे || २-५०-२८

द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् |
देवदानवगन्धर्वमृगमानुषपक्षिणाम् || २-५०-२९

लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् |
उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः || २-५०-३०

रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः |
रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः || २-५०-३१

सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् |
वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः || २-५०-३२

तत्र राजा गुहो नाम रामस्य आत्म समः सखा |
निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः || २-५०-३३

स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् |
वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः || २-५०-३४

ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् |
सह सौमित्रिणा रामः समागच्चद् गुहेन सः || २-५०-३५

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् |
यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते || २-५०-३६
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् |

ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् |
अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह || २-५०-३७

स्वागतम् ते महा बाहो तव इयम् अखिला मही |
वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः || २-५०-३८

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् |
शयनानि च मुख्यानि वाजिनाम् खादनम् च ते || २-५०-३९

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह || २-५०-४०
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् |
पद्भ्याम् अभिगमाच् चैव स्नेह संदर्शनेन च || २-५०-४१

भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् |
दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः || २-५०-४२
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च |

यत् तु इदम् भवता किंचित् प्रीत्या समुपकल्पितम् |
सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे || २-५०-४३

कुश चीर अजिन धरम् फल मूल अशनम् च माम् |
विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् || २-५०-४४

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् |
एतावता अत्र भवता भविष्यामि सुपूजितः || २-५०-४५

एते हि दयिता राज्ञः पितुर् दशरथस्य मे |
एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः || २-५०-४६

अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् |
गुहः तत्र एव पुरुषांस् त्वरितम् दीयताम् इति || २-५०-४७

ततः चीर उत्तर आसन्गः संध्याम् अन्वास्य पश्चिमाम् |
जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् || २-५०-४८

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः |
सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः || २-५०-४९

गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् |
अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः || २-५०-५०

तथा शयानस्य ततः अस्य धीमतः |
यशस्विनो दाशरथेर् महात्मनः |
अदृष्ट दुह्खस्य सुख उचितस्य सा |
तदा व्यतीयाय चिरेण शर्वरी || २-५०-५१

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे पञ्चाशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।