Ayodhya Kanda – Sarga 48 (Valmiki Ramayana)

Rama’s departure for the forest

Valmiki Ramayana – Kanda 2 – Sarga 48

तेषामेवम् विष्ण्णानाम्पीडितानामतीव च |
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया || २-४८-१
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् |
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् || २-४८-२

स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः |
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः || २-४८-३

न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् |
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः || २-४८-४

नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् |
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत || २-४८-५

गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् |
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् || २-४८-६

किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा |
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् || २-४८-७

एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया |
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने || २-४८-८

आपगाः कृत पुण्याः ताः पद्मिन्यः च सरांसि च |
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि || २-४८-९

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः |
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः || २-४८-१०

काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति |
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् || २-४८-११

विचित्र कुसुम आपीडा बहु मन्जलि धारिणः |
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च || २-४८-१२

अकाले चापि मुख्यानि पुष्पाणि च फलानि च |
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् || २-४८-१३

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः |
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् || २-४८-१४

पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् |
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः || २-४८-१५

स हि शूरः महा बाहुः पुत्रः दशरथस्य च |
पुरा भवति नो दूरात् अनुगच्चाम राघवम् || २-४८-१६

पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः |
स हि नाथो जनस्य अस्य स गतिः स परायणम् || २-४८-१७

वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् |
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् || २-४८-१८

युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति |
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति || २-४८-१९

को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च |
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा || २-४८-२०

कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् |
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः || २-४८-२१

यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् |
कम् सा परिहरेद् अन्यम् कैकेयी कुल पांसनी || २-४८-२२

कैकेय्या न वयम् राज्ये भृतका निवसेमहि |
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे || २-४८-२३

या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा |
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् || २-४८-२४

उपद्रुतमिदम् सर्वमनालम्बमनायकम् |
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति || २-४८-२५

न हि प्रव्रजिते रामे जीविष्यति मही पतिः |
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् || २-४८-२६

ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः |
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत || २-४८-२७

मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः |
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा || २-४८-२८

पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः |
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः || २-४८-२९
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः |
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः || २-४८-३०
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः |
शोभयुश्यत्यरण्यानि विचरन् स महारथः || २-४८-३१

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः |
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे || २-४८-३२

इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् |
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत || २-४८-३३

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा |
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ || २-४८-३४

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया |
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् || २-४८-३५

तथा स्त्रियो राम निमित्तम् आतुरा |
यथा सुते भ्रातरि वा विवासिते |
विलप्य दीना रुरुदुर् विचेतसः |
सुतैः हि तासाम् अधिको हि सो अभवत् || २-४८-३६

प्रशान्तगीतोत्सव नृत्तवादना |
व्यपास्तहर्षा पिहितापणोदया |
तदा ह्ययोध्या नगरी बभूव सा |
महार्णवः सम्क्षपितोदको यथा ||२-४८-३७

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे अष्टचत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।